रघुवंशम् / प्रथमः सर्गः's image
12 min read

रघुवंशम् / प्रथमः सर्गः

KalidasKalidas
0 Bookmarks 284 Reads0 Likes

रघुवंशम् / प्रथमः सर्गः
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥ १.१॥

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरं॥ १.२॥

मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यतां।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः॥ १.३॥

अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥ १.४॥

सोऽहं आजनमशुद्धानां आफलोदयकर्मणां।
आसमुद्रक्षितीशानां आनाकरथवर्त्मनां॥ १.५॥

यथाविधिहुताग्नीनां यथाकामार्चितार्थिनां।
यथापराधदण्डानां यथाकालप्रभोधिनां॥ १.६॥

त्यागाय संभृतार्थानां सत्याय मितभाषिणां।
यशसे विजिगीषुणां प्रजायै गृहमेन्धिनां॥ १.७॥

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणां।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजां॥ १.८॥

रघूणां अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः॥ १.९॥

तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा॥ १.१०॥

वैवसतो मनुर्नाम माननीयो मनीषिणां।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसां इव॥ १.११॥

तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव॥ १.१२॥

व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः॥ १.१३॥

सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना।
स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना॥ १.१४॥

आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः।
आगमैः सदृशारम्भ आरम्भसदृशोदयः॥ १.१५॥

भीमकान्तैर्नृपगुणैः स भभूवोपजीविनां।
अधृष्यश्चाभिगम्यश्च याधोरत्नैरिवार्णवः॥ १.१६॥

रेखामात्रं अपि क्षुण्णादा मनोर्वर्त्मनः परं।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः॥ १.१७॥

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्।
सहस्रगुणं उत्स्रष्टुं आदत्ते हि रसं रविः॥ १.१८॥

सेना परिच्छदस्तस्य द्वयमेवार्थसाधनं।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता॥ १.१९॥

तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव॥ १.२०॥

जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत्॥ १.२१॥

ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव॥ १.२२॥

अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः।
तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना॥ १.२३॥

प्रजानां विनयाधानाद्रक्षणाद्भरणादपि।
स पिता पितरस्तासां केवलं जन्महेतवः॥ १.२४॥

स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः॥ १.२५॥

दुधोह गां स यज्ञाय सस्याय मघवा दिवं।
संपद्विनिमयेनोभौ दधतुर्भुवनद्वयं॥ १.२६॥

न किलानुययुस्तस्य राजानो रक्षितुर्यशः।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता॥ १.२७॥

द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधं।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता॥ १.२८॥

तं वेधा विदधे नूनं महाभूतसमाधिना।
तथा हि सर्वे तस्यासन्परार्थैकफला गुणाः॥ १.२९॥

स वेलावप्रवलयां परिखीकृतसागरां।
अनन्याशासनामूर्वीं शशासैकपुरीमिव॥ १.३०॥

तस्य दाक्षिण्यरुढेन नाम्ना मगधवंशजा।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा॥ १.३१॥

कलत्रवन्तं आत्मानं अवरोधे महत्यपि।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः॥ १.३२॥

तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः।
विलम्बितफलैः कालं स निनाय मनोरथैः॥ १.३३॥

संतानार्थाय विधये स्वभुजादवतारिता।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे॥ १.३४॥

गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमां।
इच्छता संततिं न्यस्ता तेन मन्त्रिषु कोसला॥ १.३४*॥

अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया।
तौ दंपती वसिष्ठस्य गुरोर्जग्मतुराश्रमं॥ १.३५॥

स्निग्धगम्भीरनिर्घोषं एकं स्यन्दनं आस्थितौ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव॥ १.३६॥

मा भूदाश्रमपीडेति परिमेयपुरःसरौ।
अनुभावविशेषात्तु सेनापरिवृताविव॥ १.३७॥

सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः॥ १.३८॥

मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः॥ १.३९॥

परपराक्षिसादृश्यं अदूरोज्झितवर्त्मसु।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु॥ १.४०॥

श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजं।
सारसैः कलनिर्ह्राधैः क्वचिदुन्नमिताननौ॥ १.४१॥

पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालवेष्टनौ॥ १.४२॥

सरसीष्वरविन्दानां वीचिविक्षोभशीतलं।
आमोदं उपजिघ्रन्तौ स्वनिःश्वासानुकारिणं॥ १.४३॥

ग्रामेष्वात्मविषृटेषु यूपचिह्नेषु यज्वनां।
अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदं आशिषः॥ १.४४॥

हैयंगवीनं आदाय घोषवृद्धानुपस्थितान्।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनां॥ १.४५॥

काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव॥ १.४६॥

तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः॥ १.४७॥

स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः॥ १.४८॥

वनान्तरादुपावृत्तैः समित्कुशफलाहरैः।
पूर्यमाणं अदृश्याग्निप्रत्युद्यातैस्तपस्विभिः॥ १.४९॥

आकीर्णं ऋषिपत्नीनां उटजद्वाररोधिभिः।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः॥ १.५०॥

सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकं।
विश्वासाय विहंगानां आलवालाम्बुपायिनां॥ १.५१॥

आतपात्ययसंक्शिप्तनीवारासु निषादिभिः।
मृगैर्वर्तितरोमन्थं उटजाङ्गनभूमिषु॥ १.५२॥

अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान्।
पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः॥ १.५३॥

अथ यन्तारमादिष्य धुर्यान्विश्रमयेति सः।
तामवारोपयत्पत्नीं रथादवततार च॥ १.५४॥

तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः।
अर्हणां अर्हते चक्रुर्मुनयो नयचक्षुषे॥ १.५५॥

विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिं।
अन्वासितं अरुन्धत्या स्वाहयेव हविर्भुजं॥ १.५६॥

तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः॥ १.५७॥

तं आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः॥ १.५८॥

अथाऽथर्वनिधेस्तस्य विजितारिपुरः पुरः।
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः॥ १.५९॥

उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे।
दैवीनां मानुषीणां च प्रतिहर्ता त्वं आपदां॥ १.६०॥

तव मन्त्रकृतो मन्त्रैर्दूरात्प्राशमितारिभिः।
प्रत्यादिश्यन्त इव मे दृष्टलक्षभिदः शराः॥ १.६१॥

हविरावर्जितं होतस्त्वया विधिवदग्निषु।
वृष्टिर्भवति सस्यानां अवग्रहविशोषिणां॥ १.६२॥

पुरुषायुषजीविन्यो निरातङ्का निरीतयः।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसं॥ १.६३॥

त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना।
सानुबन्धाः कथं न स्युः संपदो मे निरापदः॥ १.६४॥

किं तु वध्वां तवैतस्यां अदृष्टसदृशप्रजं।
न मां अवति सद्वीपा रत्नसूरपि मेदिनी॥ १.६५॥

नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः॥ १.६६॥

मत्परं दुर्लभं मत्वा नूनं आवर्जितं मया।
पयः पूर्वैः स्वनिःश्वासैः कवोष्णं उपभुज्यते॥ १.६७॥

सोऽहं इज्याविशुद्धात्मा प्रजालोपनिमीलितः।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः॥ १.६८॥

लोकान्तरसुखं पुण्यं तपोदानसमुद्भवं।
संततिः शुद्धवंश्या हि परत्रेह च शर्मणे॥ १.६९॥

तया हीनं विधातर्मां कथं पश्यन्न दूयसे।
सिक्तं स्वयं इव स्नेहाद्वन्ध्यं आश्रमवृक्षकं॥ १.७०॥

असह्यपीडं भगवन्नृणमन्त्यमवेहि मे।
अरुंतुदमिवालानमनिर्वाणस्य दन्तिनः॥ १.७१॥

तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः॥ १.७२॥

इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः।
क्षणमात्रं ऋषिस्तस्थौ सुप्तमीन इव ह्रदः॥ १.७३॥

सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणं।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत्॥ १.७४॥

पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः।
आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि॥ १.७५॥

धर्मलोपभयाद्राज्ञीं ऋतुस्नातां इमां स्मरन्।
प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः॥ १.७६॥

अवजानासि मां यस्मादतस्ते न भविष्यति।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा॥ १.७७॥

स शापो न त्वया राजन्न च सारथिना श्रुतः।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे॥ १.७८॥

ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः॥ १.७९॥

हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः।
भुजंगपिहितद्वारं पातालमधितिष्ठति॥ १.८०॥

सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः।
आराधय सपत्नीकः प्रीता कामदुघा हि सा॥ १.८१॥

इति वादिन एवास्य होतुराहुतिसाधनं।
अनिन्द्या नन्दिनी नाम धेनुराववृते वनात्॥ १.८२॥

ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला।
बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवं॥ १.८३॥

भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि।
प्रस्नवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना॥ १.८४॥

रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात्।
तीर्थाभिषेकजां शुद्धिं आदधाना महीक्षितः॥ १.८५॥

तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः।
याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत्॥ १.८६॥

अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत्॥ १.८७॥

वन्यवृत्तिरिमां शश्वद्(?) आत्मानुगमनेन गां।
विद्यामभ्यसनेनेव प्रसादयितुमर्हसि॥ १.८८॥

प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः।
निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः॥ १.८९॥

वधूर्भक्तिमती चैनामर्चितां आ तपोवनात्।
प्रयता प्रातरन्वेतु पितेव धुरि पुत्रिणां॥ १.९१॥

इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव।
अविघ्नं अस्तु ते स्थेयाः सायं प्रतुद्व्रजेदपि॥ १.९०॥

तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः॥ १.९२॥

अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिं।
सूनुः सूनृतवाक्स्रष्टुर्विससर्जोर्जित श्रियं॥ १.९३॥

सत्यां अपि तपःसिद्धौ नियमापेक्षया मुनिः।
कल्पवित्कल्पयामास वन्यां एवास्य संविधां॥ १.९४॥

निर्दिष्टां कुलपतिना स पर्णशालां अध्यास्य प्रयतपरिग्रहद्वितीयः।
तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय॥ १.९५॥

 

No posts

Comments

No posts

No posts

No posts

No posts