रघुवंशम् / द्वितीयः सर्गः<'s image
13 min read

रघुवंशम् / द्वितीयः सर्गः<

KalidasKalidas
0 Bookmarks 263 Reads0 Likes

रघुवंशम् / द्वितीयः सर्गः

अथ प्रजान्मां अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुं ऋषेर्मुमोच॥ २.१॥

तस्याः खुरन्यासपवित्रपांसुं अपांसुलानां धुरि कीर्तनीया।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छथ्॥ २.२॥

निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरां इवोर्वीं॥ २.३॥

व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः॥ २.४॥

आस्वादवद्भिः कवलैस्तृणानं कण्डूयनैर्दंशनिवार्णैश्च।
अव्याहतैः स्वैरगतैः स तस्याः सम्राट्समाराधन्तत्परोऽभूथ्॥ २.५॥

स्थितः स्थितां उच्चलितः प्रयातां निषेदुषीं आसनबन्ध धीरः।
जलाभिलाषी जलं आदधानां छावेय तां भूपति अन्वगच्छथ्॥ २.६॥

स न्यस्तचिह्नां अपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः॥ २.७॥

लताप्रतानोद्ग्रथितैः स किशैरधिजय्धन्वा विचचार दावं।
रक्षापदेशान्मुनिह्ॐअधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान्॥ २.८॥

विषृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य।
उदीरयां आसुरिवोन्मदानां आलोकशब्दं वयसां विरावैः॥ २.९॥

मरुत्प्रयुक्ताश्च मरुत्सखाभं तं अर्च्यं आरादभिवर्तमानं।
अवाकिरन्बाललताः प्रसूनैरालोकशब्दं वयसां विरावैः॥ २.१०॥

धनुर्भृतोऽप्यस्य दयार्द्रभावं आख्यातं अन्तःकरणैर्विशङ्कैः।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः॥ २.११॥

स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंश्कृत्यं।
शुश्राव कुञ्जेषु यशः स्वं उच्चैरुद्गीयमानं वनदेवताभिः॥ २.१२॥

ऋक्तस्तुशारैर्गिरिनिर्झराणां अनोकहाकम्प्तपुष्पगन्धी।
तं आतपक्लान्तं अनातपत्रं आचारपूतं पवनः सिषेवे॥ २.१३॥

शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः।
ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्वनं गोपत्रि गाहमाने॥ २.१४॥

संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुं।
प्रचक्रमे पल्लवरागताम्रा तस्मिन्वनं गोपत्रि गाहमाने॥ २.१५॥

तां देवतापित्रतिथिक्रियार्थां अन्वग्ययौ मध्यमलोकपालः।
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना॥ २.१६॥

स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन्॥ २.१७॥

आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः।
उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्यां॥ २.१८॥

वसिष्ठधेनोरनुयानिनं तं आवर्तमानं वनिता वनान्ताथ्।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यां इव लोचनाभ्यां॥ २.१९॥

पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्म्पत्न्या।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या॥ २.२०॥

प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता।
प्रणम्य चानर्च विशालं अस्याः शृङ्गान्तरं द्वारं इवार्थसिद्धेः॥ २.२१॥

वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ।
भक्त्योपपन्नेषु हि तविधानां प्रसादचिह्नानि पुरःफलानि॥ २.२२॥

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णां॥ २.२३॥

तां अन्तिकन्यस्तबलिप्रदीपां अन्वास्य गोप्ता गृहिणीसहायः।
क्रमेण सुप्तां अनु संविवेश सुप्तोत्थितां प्रातरन्ऽ(?)ऊदतिष्ठथ्॥ २.२४॥

इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः।
सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य॥ २.२५॥

अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिह्ॐअधेनुः।
गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरं आविवेष॥ २.२६॥

इत्यद्रिषोभाप्रहितेक्षणेन इत्यद्रिषोभाप्रहितेक्षणेन।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष॥ २.२७॥

तदीयं आक्रन्दितं आर्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घं।
रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयां आस नृपस्य दृष्टिं॥ २.२८॥

स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श।
अधित्यकायां इव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लं॥ २.२९॥

ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः।
जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुं ऐच्छत्प्रसभोद्धृतारिः॥ २.३०॥

वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्त्रे।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इन्वावतस्थे॥ २.३१॥

बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णं आगस्कृतं अस्पृशद्भिः।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः॥ २.३२॥

तं आर्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुं।
विस्माययन्विस्मितं आत्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः॥ २.३३॥

अलं महीपाल तव श्रमेण प्रयुक्तं अप्यस्त्रं इतो वृथा स्याथ्।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य॥ २.३४॥

कैलासगौरं वृअं आरुरुक्षोः पादार्पणानुग्रहपूतपृष्टं।
अवेहि मां किंकरं अष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रं॥ २.३५॥

अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः॥ २.३६॥

कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य।
अथैनं अद्रेस्तनया शुशोच सेनान्यं आलीढं इवासुरास्त्रैः॥ २.३७॥

तदा प्रभृत्येव वनद्विपानां त्रासार्थं अस्मिन्नहं अदिकुक्षौ।
व्यापारितः शूलभृता विधाय सिंहत्वं अङ्कागतसत्त्ववृत्ति॥ २.३८॥

तस्यालं एषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव॥ २.३९॥

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति॥ २.४०॥

इति प्रगल्भं पुरुसाधिराजो मृगाधिराजस्य वचो निशम्य।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार॥ २.४१॥

प्रत्यब्रवीच्चैनं इषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः।
जडीकृतस्त्र्यम्बकविक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः॥ २.४२॥

प्रत्याह वैनं शरमोक्षवन्ध्यो मा पत्त्रपर्वात्स्वरभेदं आप्तः।
प्रहीणपूर्वध्वनिनाधिरूढस्तुलां असारेन शरद्घनेन॥ २.४२*॥

संरुद्धचेष्टस्य हेतुः हास्यं वचस्तद्यदहं विवक्षुः।
अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावं अतोऽभिधास्ये॥ २.४३॥

मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः।
गुरोरपीदं धनं आहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयं॥ २.४४॥

स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः॥ २.४५॥

अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन्।
भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे॥ २.४६॥

एकातपत्रं जगतः प्रभुत्वं नवं ययः कान्तं इदं वपुश्च।
अल्पस्य हेतोर्बहु हातुं इच्छन्विचारमूधः प्रतिभासि मे त्वं॥ २.४७॥

भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि॥ २.४८॥

अथैकधेनोरपराधचण्डाद्गुरोः कृषानुप्रतिमाद्बिभेषि।
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः॥ २.४९॥

तद्रक्ष कल्याणपरंपराणां भोक्तारं ऊर्जस्वलं आत्मदेहं।
महीतलस्पर्शनमात्रभिन्नं ऋद्धं हि राज्यं पदं ऐन्द्रं आहुः॥ २.५०॥

एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन।
शिलोच्चयोऽपि क्षितिपालं उच्चैः प्रीत्या तं एवार्थं अभाषतेव॥ २.५१॥

निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः॥ २.५२॥

क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा॥ २.५३॥

कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनां।
इमां अनूनां सुरभेरवेहि रुद्रौजसा तु पहृतं त्वयास्यां॥ २.५४॥

सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः।
न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः॥ २.५५॥

भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ।
स्थातुं नियोक्तुर्न हि शक्यं अग्रे विनाश्य रक्ष्यं स्वयं अक्षतेन॥ २.५६॥

किं अप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः।
एकान्तविधंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु॥ २.५७॥

संबन्धं आभाषणपूर्वं आहुर्वृत्तः स नौ संगतयोर्वनान्ते।
तद्भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुं॥ २.५८॥

तथेति गां उक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः।
स न्यस्त शस्त्रो हरये स्वदेहं उपानयत्पिण्डं इवामिषस्य॥ २.५९॥

तस्मिन्क्षणे पालयितुः प्रजानां उत्पश्यतः सिंहनिपातं उग्रं।
अवाङ्मुखस्य्ऽओपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता॥ २.६०॥

उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितं उत्थितः सन्।
ददर्श राजा जननीं इव स्वां गां अग्रतः प्रस्रविणीं न सिंहं॥ २.६१॥

तं विस्मितं धेनुरुवाच साधो मायां मयोध्भाव्य परीक्षितोऽसि।
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किं उतान्यहिंस्राः॥ २.६२॥

भक्त्या गुरौ मय्यनुकम्पाय च प्रीतास्मि ते पुत्र वरं वृणीष्व।
न केवलानां पयसां प्रसूतिं अवेहि मां कामदुघां प्रसन्नां॥ २.६३॥

ततः समानीय समानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः।
वंशस्य कर्तारं अनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे॥ २.६४॥

संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा।
दुग्ध्वा पयः पत्त्रपुटे मदीयं पुत्र्ऽ ओपभुङ्क्ष्व्ऽ एति तं आदिदेश॥ २.६५॥

वत्सस्य ह्ॐआर्थविधेश्च शेषं ऋषेरनुज्ञां अधिगम्य मातः।
ऊधस्यं इच्छामि तवोपभोक्तुम्यं षष्ठाम्शं उर्व्या इव रक्षितायाः॥ २.६६॥

इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव।
तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रमं अश्रमेण॥ २.६७॥

तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य।
प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव॥ २.६८॥

स नन्दिनीस्तन्यं अनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषं।
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तं इवातितृष्णः॥ २.६९॥

प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज।
तौ दंपती स्वां प्रति राजधानीं प्रस्थापयां आस वशी वसिष्ठः॥ २.७०॥

प्रदक्षिणीकृत्य हुतं हुताशं अनन्तरं भर्तुररुन्धतीं च।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः॥ २.७१॥

श्रोताभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः।
ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन॥ २.७२॥

तं आहितौत्सुक्यं अदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गं।
नेत्रैः पपुस्तृप्तिं अनाप्नुवद्भिर्नवोदयं नाथं इवौषधीनां॥ २.७३॥

पुरंदरश्रीः पुरं उत्पताकं प्रविश्य पौरैरभिनन्द्यमानः।
भुजे भुअंगेन्द्रसमानसारे भूयः स भूमेर्धुरं आससञ्ज॥ २.७४॥

अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतं ऐशं।
नरपतिकुलभूत्यै गर्भं आधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः॥ २.७५॥

No posts

Comments

No posts

No posts

No posts

No posts