कुमारसम्भवम् / द्वादशः सर्गः's image
10 min read

कुमारसम्भवम् / द्वादशः सर्गः

KalidasKalidas
0 Bookmarks 60 Reads0 Likes

कुमारसम्भवम् / द्वादशः सर्गः

अथ प्रपेदे त्रिदशैरशेषैः क्रूरासुरोपप्लवदुःखितात्मा।
पुलोमपुत्रीदयितोऽन्धकारिं पत्त्रीव तृष्णातुरितः पयोदम्॥१॥

दृप्तारिसंत्रासखिलीकृतात्स कथंचिदम्भोदविहारमार्गात्।
अवातताराभिगिरिं गिरीशगौरीपदन्यासविशुद्धमिन्द्रः॥२॥

संक्रन्दनः स्यन्दनतोऽवतीर्य मेघात्मनो मातलिदत्तहस्तः।
पिनाकिनोऽथालयमुच्चचाल शुचौपिपासाकुलितो यथाम्भः॥३॥

इतस्ततोऽथ प्रतिबिम्बभाजं विलोकमानः स्फटिकाद्रिभूमौ।
आत्मानमप्येकमनेकधा स व्रजन्विभोरास्पदमाससाद॥४॥

विचित्रचञ्चन्मणिभङ्गिसङ्गं सौवर्णदण्डं दधतातिचण्डम्।
स नन्दिनाधिष्ठितमध्यतिष्ठत्सौधाङ्गणद्वारमनङ्गशत्रोः॥५॥

ततः स कक्षाहितहेमदण्डो नन्दी सुरेन्द्रं प्रतिपद्य सद्यः।
प्रतोषयामास सुगौरवेण गत्वा शशंस स्वयमीश्वरस्य॥६॥

भ्रूसंज्ञयानेन कृताभ्यनुज्ञः सुरेश्वरं तं जगदीश्वरेण।
प्रवेशयामास सुरैः पुरोगः समं स नन्दी सदनं सदस्य॥७॥

स चण्डिभृङ्गिप्रमुखैर्गरिष्ठैर्गणैरनेकैर्विविधस्वरुपैः।
अधिष्ठितं संसदि रत्नमय्यां सहस्रनेत्रः शिवमालुलोके॥८॥

कपर्दमुद्बद्धमहीनमूर्धरत्नांशुभिर्भासुरमुल्लसद्भिः।
दधानमुच्चैस्तरमिद्धधातोः सुमेरुश्रृङ्गस्य समत्वमाप्तम्॥९॥

बिभ्राणमुत्तुङ्गतरङ्गमालां गङ्गां जटाजूटतटं भजन्तीम्।
गौरीं तदुत्सङ्गजुषं हसन्तीमिव स्वफेनैः शरदभ्रशुभ्रैः॥१०॥

गङ्गातरङ्गप्रतिबिम्बितैः स्वैर्बहूभवन्तं शिरसा सुधांशुम्।
चलन्मरीचिप्रचयैस्तुषारगौरैर्हिमद्योतितमुद्वहन्तम्॥११॥

भालस्थले लोचनमेधमानधामाधरीभूतरवीन्दुनेत्रम्।
युगान्तकालोचितहव्यवाहं मीनध्वजप्लोषणमादधानम्॥१२॥

महार्हरत्नाञ्चितयो रुदारं स्फुरत्प्रभामण्डलयोः समन्तात्।
कर्णस्थिताभ्यां शशिभास्कराभ्यामुपासितं कुण्डलयोश्छलेन॥१३॥

स्वबद्धया कण्ठिकयेव नीलमाणिक्यमय्या कुतुकेन गौर्याः।
नीलस्य कण्ठस्य परिस्फुरन्त्या कान्त्या महत्या सुविराजमानम्॥१४॥

कालार्दितानां त्रिदशासुराणां चितारजोभिः परिपाण्डुरंगम्।
महन्महेभाजिनमुद्गताभ्रप्रालेयशैलश्रियमुद्वहन्तम्॥१५॥

पाणिस्थितब्रह्मकपालपात्रं वैकुण्ठभाजापि निषेध्यमाणाम्।
नरास्थिखण्डाभरणं रणान्तमूलं त्रिशूलं कलयन्तमुच्चैः॥१६॥

पुरातनीं ब्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्तीम्।
उद्गीतवेदां मुकुटेन्दुवर्षत्सुधा भरौघाप्लवलब्धसंज्ञाम्॥१७॥

सलीलमङ्कस्थितया गिरीन्द्रपुत्र्या नवाष्टापदवल्लिभासा।
विराजमानं शरदभ्रखण्डं परिस्फुरन्त्याचिररोचिषेव॥१८॥

दृप्ताऽन्धकप्राणहरं पिनाकं महासुरस्त्रीविधवत्वहेतुम्।
करेण गृह्णान्तमगृह्यमन्यैः पुरास्मरप्लोषणकेलिकारम्॥१९॥

भद्रासनं काञ्चनपादपीठं महार्हमाणिक्यविभङ्गिचित्रम्।
अधिष्ठितं चन्द्रमरीचिगौरैरुद्वीज्यमानं चमरैर्गणाभ्याम्॥२०॥

शस्त्रास्त्रविद्याभ्यसनैकसक्ते सविस्मयैरेत्य गणैः सुदृष्टे।
नीराज्यमाने स्फटिकाचलेन सानन्दनिर्दिष्टदृशं कुमारे॥२१॥

तथाविधं शैलसुताधिनाथं पुलोमपुत्रीदयितो निरीक्ष्य।
आसीत्क्षणं क्षोभपरो नु कस्य मनो न हि क्षुभ्यति धामधाम्नि॥२२॥

विकरस्वराभ्भोजवनश्रिया तं दृशं सहस्रेण निरीक्षमाणः।
रोमालिभिः स्वर्गपतिर्बभासे पुष्पोत्कराकीर्णइवाम्रशाखी॥२३॥

दृष्ट्वा सहस्रेण दृशां महेशमभूत्कृतार्थोऽतितरां महेन्द्रः।
सर्वाङ्गजातं तदथो विरुपमिव प्रियाकोपकरं विवेद॥२४॥

ततः कुमारं कनकाद्रिसारं पुरंदरः प्रेक्ष्य धृतास्त्रशस्त्रम्।
महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध॥२५॥

श्रीनीलकण्ठ द्युपतिः पुरोऽस्ति त्वयि प्रणामावसरं प्रतीच्छन्।
सहस्रनेत्रेऽत्र भव त्रिनेत्र दृष्ट्या प्रसाद प्रगुणो महेश॥२६॥

इति प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभिः हेम नेत्रम्।
प्रसादपात्रं पुरतो भविष्णुरथ स्मरारातिमुवाच वाचम्॥२७॥

पुरा सुरेन्द्रं सुरसङ्घसेव्यं त्रिलोकसेव्यस्त्रिपुरासुरारिः।
प्रीत्या सुधासारनिधारिणेव ततोऽनुजग्राह विलोकनेन॥२८॥

किरीटकोटिच्युतपारिजात पुष्पोत्करेणानमितेन मूर्ध्ना।
स्वर्गैकवन्द्यो जगदेकवन्द्यं तं देवदेवं प्रणनाम देवः॥२९॥

अनेकलोकैकनमस्क्रियार्हं महेश्वरं तं त्रिदशेश्वरः स।
भक्त्या नमस्कृत्य कृतार्थतायाः पात्रं पवित्रं परमं बभूव॥३०॥

सुभक्तिभाजामधि पादपीठं प्रान्तक्षितिं नम्रतरैः शिरोभिः।
ततः प्रणेमुः पुरतो गणानां गणाः सुराणां क्रमतः पुरारिम्॥३१॥

गणोपनीते प्रभुणोपदिष्टः शुभासने हेममये पुरस्तात्।
प्रापोपविश्य प्रमुदं सुरेन्द्रः प्रभुप्रसादो हि मुदे न कस्य॥३२॥

क्रमेण चान्येऽपि विलोकनेन संभाविताः सस्मितमीश्वरेण।
उपाविशंस्तोषविशेषमाप्ता दृग्गोचरे तस्य सुराः समग्राः॥३३॥

अथाह देवो बलवैरिमुख्यान् गीर्वाणवर्गान्करुणार्द्रचेताः।
कृताञ्जलीकान्सुराभिसूतान्ध्वस्तश्रियः श्रान्तमुखानवेक्ष्य॥३४॥

अहो बतानन्तपराक्रमाणां दिवौकसो वीरवरायुधानाम्।
हिमोदबिन्दुग्लपितस्य किं यः पद्मस्य दैन्यं दधते मुखानि॥३५॥

स्वर्गौकसः स्वर्गपरिच्युताः किं स्वपुण्यराशौ सुमहत्तमेऽपि।
चिह्नं चिरोढं न तु यूयमेते निजाधिपत्यस्य परित्यजध्वम्॥३६॥

दिवौकसो देवगृहं विहाय मनुष्यसाधारणतामवाप्ताः।
यूयं कुतः कारणतश्चरध्वं महीतले मानभृतो महान्तः॥३७॥

अनन्यसाधारणसिद्धमुच्चैस्तद्दैवतं धाम निकामरम्यम्।
कस्माद कस्मान्निरगाद्भवद्भ्यश्चिरार्जितं पुण्यमिवा पचारात्॥३८॥

दिवौकसो वो हृदयस्य कस्मात्तयाविधं धैर्यमहार्यमार्याः।
अगादगाधस्य जलाशयस्य ग्रीष्मातितापादिवशादिवाम्भः॥३९॥

सुराः सुराधीशपुरःसराणां समीयुषां वः सममातुराणाम्।
तद्ब्रूत लोकत्रयजित्वरात्किं महासुरात्तारकतो विरुद्धम्॥४०॥

पराभवं तस्य महासुरस्य निषेद्धुमेकोऽहमलंभविष्णुः।
दावानलप्लोषविपत्तिमन्यो महाम्बुदात्किं हरते वनानाम्॥४१॥

इतीरिते मन्मथमर्दनेन सुराः सुरेन्द्रप्रमुखा मुखेषु।
सान्द्रप्रमोदाश्रुतरङ्गितेषु दधुः श्रियं सत्वरमाश्वसन्तः॥४२॥

ततो गिरीशस्य गिरां विरामे जगाद लब्धेऽवसरे सुरेन्द्रः।
भवन्ति वाचोऽवसरे प्रयुक्ता ध्रुवं फलाविष्टमहोदयाय॥४३॥

ज्ञानप्रदीपेन तमोपहेनाविनश्वरेणास्खलितप्रभेण।
भूतं भवद्भावि च यच्च किंचित्सर्वज्ञ सर्वं तव गोचरं तत्॥४४॥

दुर्वारदोरुद्यमदुःसहेन यत्तारकेणामरघस्मरेण।
तदीशतामाप्तवता निरस्ता वयं दिवोऽमी वद किं न वेत्सि॥४५॥

विधेरमोघं स वरप्रसादमासाद्य सद्यस्त्रिजगज्जिगीषुः।
सुरानशेषानहकप्रमुख्यान्दोर्दण्डचण्डो मनुते तृणाय॥४६॥

स्तुत्या पुरास्माभिरुपासितेन पितामहेनेति निरुपितं नः।
सेनापतिः संयति दैत्यमेतं पुरः स्मरारातिसुतो निहन्ति॥४७॥

अहो ततोऽनन्तरमद्ययाव त्सुदुःसहां तस्य पराभवार्तिम्।
विषेहिरे हन्त हृदन्तशल्यमाज्ञानिवेशं त्रिदिवौकसौऽमी॥४८॥

निदाघधामक्लमविक्लवानां नवीनमम्भोदमिवौषधीनाम्।
सुनन्दनं नन्दनमात्मनो नः सेनान्यमेतं स्वयमादिश त्वम्॥४९॥

त्रैलोक्यलक्ष्मीहृदयैकशल्यं समूलमुत्खाय महासुरं तम्।
अस्माकमेषां पुरतो भवन्स दुःखापहारं युधि यो विधत्ते॥५०॥

महाहवे नाथ तवास्य सूनोः शस्त्रैः शितैः कृत्तशिरोधराणाम्।
महासुराणां रमणीविलोपैर्दिशो दशैता मुखरीभवन्तु॥५१॥

महारणक्षोणिपशूपहारीकृतेऽसुरे तत्र तवात्मजेन।
बन्दिस्थितानां सुदृशां करोतु वेणिप्रमोक्षं सुरलोक एषः॥५२॥

इत्थं सुरेन्द्रे वदति स्मरारिः सुरारिदुश्चेष्टितजातरोषः।
कृतानुकम्पस्त्रिदशेषु तेषु भूयोऽपि भूताधिपतिर्बभाषे॥५३॥

अहो अहो देवगणाः सुरेन्द्रमुख्याः शृणुध्वं वचनं ममैते।
विचेष्टते शंकर एष देवः कार्याय सज्जो भवतां सुताद्यैः॥५४॥

पुरा मयाकारि गिरीन्द्रपुत्र्याः प्रतिग्रहोऽयं नियतात्मनापि।
तत्रैष हेतुः खलु तद्भवेन वीरेण यद्वध्यत एष शत्रुः॥५५॥

अत्रोपपन्नं तदमी नियुज्य कुमारमेनं पृतनापतित्वे।
निघ्नन्तु शत्रुं सुरलोकमेष भुनक्तु भूयोऽपि सुरैः सहेन्द्रः॥५६॥

इत्युदीर्य भगवांस्तमात्मजं घोरसंगरमहोत्सवोत्सुकम्।
नन्दनं हि जहि देवविद्विषं संयतीति निजगाद शंकरः॥५७॥

शासनं पशुपतेः स कुमार स्वीचकार शिरसावनतेन।
सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः॥५८॥

असुरयुद्धविधौ विबुधेश्वरे पशुपतौ वदतीति तवात्मजम्।
गिरीजया मुमुदे सुतविक्रमे सति न नन्दति का खलु वीरसूः॥५९॥

सुरपरिवृढः प्रौढं वीरं कुमारमुमापते-
?र्बलवदमरारातिस्त्रीणां दृगञ्जनभञ्जनम्।
जगदभयदं सद्यः प्राप्य प्रमोदपरोऽभवद्-
ध्रुवमभिमते पूर्णे को वा मुदा न हि माद्यति॥६०॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदाससकृतौ कुमारसंभवे महाकाव्ये

कुमारसैनापत्यवर्णनं नाम द्वादशः सर्गः॥

 

No posts

Comments

No posts

No posts

No posts

No posts