रघुवंशम् / पञ्चमः सर्गः's image
13 min read

रघुवंशम् / पञ्चमः सर्गः

KalidasKalidas
0 Bookmarks 313 Reads0 Likes

रघुवंशम् / पञ्चमः सर्गः
तं अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातं।
उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः॥ ५.१॥

स मृन्मये वीतहिरण्मयत्वात्पात्रे निधायार्गह्यं अनर्घशीलः।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिं आतिथेयः॥ ५.२॥

तं अर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी।
विशांपतिर्विष्टरभाजं आरात्कृताञ्जलिः कृत्यविदित उवाच॥ ५.३॥

अप्यग्रणीर्मन्त्रकृतां ऋषीणां कुशाग्रबुद्धे कुशली गुरुस्ते।
यतस्त्वया ज्ञानं अशेषं आप्तं लोकेन चैतन्यं इवोष्णरश्मेः॥ ५.४॥


कायेन वाचा मनसापि शश्वद्यत्संभृतं वासवधैर्यलोपि।
आपाद्यते न व्ययं अन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तथ्॥ ५.५॥

आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषं।
कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदं आश्रमपादपानां॥ ५.६॥

क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु।
तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणां अनघा प्रसूतिः॥ ५.७॥

निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितःणां।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चिथ्॥ ५.८॥

नीवारपाकादि कडम्गरीयैरामृश्यते जानपदैर्न कच्चिथ्।
कालोपपन्नातिथिकल्पभागं वन्यं शरीरस्थितिसाधनं वः॥ ५.९॥

अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षमं आश्रमं ते॥ ५.१०॥

तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।
अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्मां॥ ५.११॥

इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारां अपि गां निशम्य।
स्वार्थोपपत्तिं प्रति दुर्बलाशस्तं इत्यवोचद्वरतन्तुशिष्यः॥ ५.१२॥

सर्वत्र नो वार्त्तं अवेहि राजन्नाथे कुतस्त्वव्यशुभं प्रजानां।
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा॥ ५.१३॥

भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तयाऽतिशेषे।
व्यतीतकालस्त्वहं अभ्युपेतस्त्वां अर्थिभावादिति मे विषादः॥ ५.१४॥

शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः॥ ५.१५॥

स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यनक्ति।
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः॥ ५.१६॥

तदन्यतस्तावदनन्यकार्यो गुर्वर्थं आहर्तुं अहं यतिष्ये।
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि॥ ५.१७॥

एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य।
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तं अन्वयुङ्क्त॥ ५.१८॥

ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतं आचचक्षे॥ ५.१९॥

समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै।
स मे चिरायास्खलितोपचारां तां भक्तिं एवागणयत्पुरस्ताथ्॥ ५.२०॥

निर्बन्धसंजातरुषार्थकार्श्यं अचिन्तयित्वा गुरुणाहं उक्तः।
वित्तस्य विद्यापरिसंख्यया मे कोटीष्चतस्रो दश चाहरेति॥ ५.२१॥

सोऽहं सपर्याविधिभाजनेन मत्वा बह्वन्तं प्रभुशब्दशेषं।
अभ्युत्सहे संप्रति नोपरोद्धुं अल्पेतरत्वाच्छ्रुतनिष्क्रयस्य॥ ५.२२॥

इत्थं द्विजेन द्विजराकान्तिरावेदितो वेदविदां वरेण।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः॥ ५.२३॥

गुर्वर्थं अर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामं।
गतो वदायान्तरं इत्ययं मे मा भूत्परीवादनवावतारः॥ ५.२४॥

स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे।
द्वित्राण्यहान्यर्हसि सोढुं अर्हन्यावद्यते साधयितुं त्वदर्थं॥ ५.२५॥

तथेति तस्य्ऽ आवितथं प्रतीतः प्रत्यग्रहीत्संगरं अग्रजन्मा।
गां आत्तसारां रघुरप्यवेक्ष्य निष्कष्टुं अर्थं चकमे कुबेराथ्॥ ५.२६॥

वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु।
मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य॥ ५.२७॥

अथाधिशिश्ये प्रयथः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भं।
सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः॥ ५.२८॥

प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः।
हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः॥ ५.२९॥

तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानाथ्।
दिदेश कौतस्य समस्तं एव पादं सुमेरोरिव वज्रभिन्नं॥ ५.३०॥

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतां अभिनन्द्यसत्त्वौ।
गुरुप्रदेयाधिकनीःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च॥ ५.३१॥

अथोष्ट्रवामीशतवाहितार्थं प्रजेष्वरं प्रीतमना महर्षिः।
स्पृषन्करेणानतपूर्वकायं संप्रस्थितो वाचं उवाच कौत्सः॥ ५.३२॥

किं अत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानां।
अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा॥ ५.३३॥

आशास्यं अन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तं ईडं भवतः पितेव॥ ५.३४॥

इत्थं प्रयुज्याशिषं अग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशं।
राजापि लेभे सुतं आशु तस्मादालोकं अर्कादिव जीवलोकः॥ ५.३५॥

ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारं।
अतः पिता ब्रह्मण एव नाम्ना तं आत्मजन्मानं अजं चकार॥ ५.३६॥

रूपं तदोजस्वि तदेव वीर्यं तदैव नैसर्गिकं उन्नतत्वं।
न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपाथ्॥ ५.३७॥

उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तं।
श्रीर्गन्तुकामापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष॥ ५.३८॥

अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः।
आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः॥ ५.३९॥

तं श्लाघ्यसंबन्धं असौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रं।
प्रस्थापयां आस ससैन्यं एनं ऋद्धां विदर्भाधिपराजधानीं॥ ५.४०॥

तस्योपकार्यारचितोपकारा वन्येतरा जानपदोपदाभिः।
मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः॥ ५.४१॥

स नर्मदारोधसि शीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले।
निवेशयां आस विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यं॥ ५.४२॥

अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः।
निर्धौत दानामलगण्डभित्तिर्यन्यः सरित्तो गज उन्ममज्ज॥ ५.४३॥

निःशेषविक्षालितधातुनापि वप्रक्रियां ऋक्षवतस्तटेषु।
नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन॥ ५.४४॥

संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दं।
बभौ स भिन्दन्बृहतस्तरङ्गान्वार्यर्गलाभङ्ग इव प्रवृत्तः॥ ५.४५॥

स भोगिभोगाधिकपीवरेण हस्तेन तीराभिमुखः सशब्दं।
संवर्धितार्त्धप्रहितेन दीर्घान्चिक्षेप वारीपरिघानिवोर्मीन्॥ ५.४५*॥

शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चाथ्।
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटं उत्ससर्प॥ ५.४६॥

कारण्डवोत्सृष्टमृदुप्रत्नानाः पुलिन्दयोषाम्बुविहारकाञ्चीः।
कर्षन्स शैवाललता नदीषः स्कन्धावलग्नास्तटं उत्ससर्प॥ ५.४६*॥

तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता।
वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः॥ ५.४७॥

सप्तच्छदक्षीरकटुप्रवाहं असह्यं आघ्राय मदं तदीयं।
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः॥ ५.४८॥

स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन।
रामापरिताणविहस्तयोधं सेनानिवेशं तुमुलं चकार॥ ५.४९॥

तं आपतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः।
निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः॥ ५.५०॥

स विद्धमात्रः किल नागरूपं उत्सृज्य तद्विस्मितसैन्यदृष्टः।
स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्य्ॐअचरं प्रपेदे॥ ५.५१॥

अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः।
उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः॥ ५.५२॥

मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वं।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य॥ ५.५३॥

स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतां अगच्छथ्।
उष्णत्वं अग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य॥ ५.५४॥

इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भं अय्ॐउखेन।
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्मां॥ ५.५५॥

संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन।
प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः॥ ५.५६॥

संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रं।
गान्धर्वं आधत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते॥ ५.५७॥

अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभुः प्रहरन्नपि त्वं।
तस्मादुपच्छन्दयति प्रयोजं मयि त्वया न प्रतिशेधरौक्ष्यं॥ ५.५८॥

तथेत्युपस्पृश्य पयः पवित्रं स्ॐओध्बवायाः सरितो नृस्ॐअः।
उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापाथ्॥ ५.५९॥

एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यं अचिन्त्यहेतु।
एको ययौ चैत्ररथपदेशान्सौराज्यरम्यानपरो विदर्भान्॥ ५.६०॥

तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः।
प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली॥ ५.६१॥

प्रवेश्य चैनं पुरं अग्रयायी नीचैस्तथोपाचरदर्पितश्रीः।
मेने यथा तत्र जनः समेतो वैदर्भं आगन्तुं अजं गृहेशं॥ ५.६२॥

तस्य्ऽ आधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भां।
मेने यथा तत्र जनः समेतो बाल्यात्परां इव दशां मदनोऽध्युवास॥ ५.६३॥

तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयं अजस्य लिप्सोः।
भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव॥ ५.६४॥

तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागं।
सूतात्मजाः सवयसः प्रथितप्रबोधं) प्राबोधयन्नुषसि वाग्भिरुदारवाचः॥ ५.६५॥

रात्रिर्गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता।
तां एकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी॥ ५.६६॥

निद्रावशेन भवताप्यनपेक्षमाणा पर्युत्सुकत्वं अबला निशि खण्डितेव।
लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्रः॥ ५.६७॥

तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परपरतुलां अधिरोहतां द्वे।
प्रस्पन्दमानपरुषेतरतारं अन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मं॥ ५.६८॥

वृन्ताच्छ्लथं हरति पुष्पं अनोकहानां संसृज्यते सरसिजैररुणाम्शुभिन्नैः।
स्वाभाविकं परगुणेन विभातवायुः सौरभ्यं ईप्सुरिव ते मुखमारुतस्य॥ ५.६९॥

ताम्रोदरेषु पैतं तरुपल्लवेषु निर्धौत हारगुलिकाविशदं हिमाम्भः।
आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिव त्वदीयं॥ ५.७०॥

यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तं।
आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयं उच्छिनत्ति॥ ५.७१॥

शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते।
येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोषाः॥ ५.७२॥

दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः॥ ५.७३॥

भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः।
अयं अपि च गिरं नस्त्वत्प्रबोधप्रयुक्तां अनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः॥ ५.७४॥

इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पं उज्झां चकार।
मदपटु निनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः॥ ५.७५॥

अथ विधिं अवसाय्य शास्त्रदृष्टं दिवसमुखोचितं अञ्चिताक्षिपक्ष्मा।
कुशलविरचितानुकूलवेषः क्षितिपसमाजं अगात्स्वयंवरस्थम्॥ ५.७६॥

 

No posts

Comments

No posts

No posts

No posts

No posts