रघुवंशम् / एकोनविंशः सर्गः's image
9 min read

रघुवंशम् / एकोनविंशः सर्गः

KalidasKalidas
0 Bookmarks 117 Reads0 Likes

रघुवंशम् / एकोनविंशः सर्गः
अग्निवर्णम् अभिषिच्य राघवः स्वे पदे तनयम् अग्नितेजसम्।
शिश्रिये श्रुतवताम् अपश्चिमः पश्चिमे वयसि नैमिषं वशी।। १९.१॥

तत्र तीर्थसलिलेन दीर्घिकास्तल्पं अन्तरितभूमिभिः कुशैः।
सौधवासं उटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः।। १९.२॥

लब्धपालनविधौ न तत्सुतः खेदं आप गुरुणा हि मेदिनी।
भोक्तुं एव भुजनिर्जितद्विषा न प्रसाधयितुं अस्य कल्पिता।। १९.३॥

सोऽधिकारं अभिकः कुलोचितं काश्चन स्वयं अवर्तयत्समाः।
तं निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवथ्।। १९.४॥

कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु।
ऋद्धिमन्तं अधिकर्द्धिरुत्तरः पूर्वं उत्सवं अपोहदुत्सवः।। १९.५॥

इन्द्रियार्थपरिशून्यं अक्षर्मः सोढुं एकं अपि स क्षणातरं।
अन्तरे च विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः।। १९.६॥

गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ।
तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितं।। १९.७॥

तं कृतप्रणतयोऽनुजीविनः क्ॐअलात्मनखरागरूषितं।
भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणं।। १९.८॥

युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः।
गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः।। १९.९॥

तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः।
अङ्गनास्तं अधिकं व्यलोभयन्नर्पितप्रकृतिकान्तिभिर्मुखैः।। १९.१०॥

घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः।
अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः।। १९.११॥

सातिरेकमदकारणं रहस्तेन दत्तं अभिलेषुरङ्गनाः।
ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः।। १९.१२॥

अङ्कं अङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतां उभे।
वल्लकी च हृदयंगमस्वना वल्गुवागपि च वामलोचना।। १९.१३॥

स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जवथ्।। १९.१४॥

चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमाथ्।
प्रेमदत्तवदनानिअः मनः सोऽन्वजीवदमरालकेश्वरौ।। १९.१५॥

तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः।
वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः।। १९.१६॥

अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितं।
मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः।। १९.१७॥

तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु।
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः।। १९.१८॥

लौल्यं एत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः।
वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः।। १९.१९॥

प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितं।
निन्युरुत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थतां।। १९.२०॥

प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः।
प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः।। १९.२१॥

स्वप्नकीर्तितविपक्षं अङ्गनाः दर्शनेन कृतखण्डनव्यथाः।
प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः।। १९.२२॥

क्ëप्तपुष्पशयनांल्लतागृहानेत्य दूतिकृतमार्गदर्शनः।
अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरं।। १९.२३॥

नाम वल्लभजनस्य ते मया प्राप्य भाग्यं अपि तस्य काङ्क्ष्यते।
लोलुपं बत मनो ममेति तं गोत्रविस्खलितं ऊचुरङ्गनाः।। १९.२४॥

चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलं अलक्तकाङ्कितं।
उत्थितस्य शयनं विलासिनस्तस्य विभ्रमर्ततान्यपावृणोथ्।। १९.२५॥

स स्वयं चरणरागं आदधे योषितं न च तथा समाहितः।
लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः।। १९.२६॥

चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने।
विघ्नितेच्छं अपि तस्य सर्वतो मन्मथेन्धनं अभूद्वधूरतं।। १९.२७॥

दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वं अनुपृष्ठसंस्थितः।
छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः।। १९.२८॥

कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलं अग्रपादयोः।
प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनं।। १९.२९॥

प्रेक्ष्य दर्पणतल्स्थं आत्मनो राजवेषं अतिशक्रशोभिनं।
पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनं।। १९.३०॥

मित्रकृत्यं अपदिश्य पार्श्वतः प्रस्थितं तं अनवस्थितं प्रियाः।
विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः।। १९.३१॥

तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रं अपदिश्ययोषितः।
अध्यशेरत बृहद्(?) भुजान्तरं पीवरस्तनविलुप्तचन्दनं।। १९.३२॥

संगमाय निशि गूढचारिणं चारदूतिकथितं पुरो गताः।
वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तं अङ्गनाः।। १९.३३॥

योषितां उडुपतेरिवाचिषां स्पर्शनिर्वृतिं असावनाप्नुवन्।
आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः।। १९.३४॥

वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः।
शिलपकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन्।। १९.३५॥

अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यं उपधाय दर्शयन्।
स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ।। १९.३६॥

अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः।
प्रावृषि प्रमदबर्हिणेष्वभूत्कृतिमाद्रिषु विहारविभ्रमः।। १९.३७॥

विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुं अबलाः स तत्वरे।
आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरं।। १९.३८॥

कार्त्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः।
अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकां।। १९.३९॥

सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बं इव हंसमेखलं।
स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर्व्यलोकयथ्।। १९.४०॥

मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमर्शनैस्तं एकतः।
जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निव्सनैः सुमध्यमाः।। १९.४१॥

अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु।
तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः।। १९.४२॥

दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवं।
अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगं अङ्गनाः।। १९.४३॥

ताः स्वं अङ्कं अधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया।
मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनं अवाप बाहुभिः।। १९.४४॥

तं पयोधरनिषक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः।
ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलाः प्रियाः।। १९.४५॥

यत्स भग्नसहकारं आसवं रक्तपाटलसमागमं पपौ।
तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः।। १९.४६॥

एवं इन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः।
आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः।। १९.४७॥

तं प्रमत्तं अपि न प्रभावतः शेकुराक्रमितुं अन्यपार्थिवाः।
आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रं अक्षिणोथ्।। १९.४८॥

दृष्टदोषं अपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजां अनाश्रवः।
स्वादुभिस्तु विषयैर्हृतस्ततो दुःखं इन्द्रियगणो निवार्यते।। १९.४९॥

तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना।
यक्ष्मणापि परिहानिराययौ कामयानसमवस्थया तुलां।। १९.५०॥

व्य्ॐअ पश्चिमकलास्थितेन्दु वा पङ्कशेषं इव घर्मपल्वलं।
राज्ञि तत्कुलं अभूत्क्षयातुरे वामनार्चिरिव दीपभाजनं।। १९.५१॥

बाढं एषु दिवसेषु कर्म साधयति पुत्रजन्मने।
इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः।। १९.५२॥

स त्वनेकवनितासखोऽपि सन्पावनीं अनवलोक्य संततिं।
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुं अत्यगाथ्।। १९.५३॥

तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा।
रोगशान्तिं अपदिश्य मन्त्रिणः संभृते शिखिनि गूढं आदधुः।। १९.५४॥

तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी।
साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियं।। १९.५५॥

तस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णैर्विलोचनजलैः प्रथमाभितप्तः।
निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः।। १९.५६॥

तं भावार्थ प्रसवसमयाकाङ्क्षिणीनां प्रजानां अन्तर्गूढं क्षितिरिव बभौ बीजमुष्टिं दधाना।
मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा।।१९.५७॥

 

No posts

Comments

No posts

No posts

No posts

No posts