रघुवंशम् / चतुर्थः सर्गः's image
12 min read

रघुवंशम् / चतुर्थः सर्गः

KalidasKalidas
0 Bookmarks 94 Reads0 Likes

रघुवंशम् / चतुर्थः सर्गः
स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः॥ ४.१॥

न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां पतिं।
राज्ञां उद्धृतनाराचे हृदि शल्यं इवार्पितं॥ ४.१*॥

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितं।
पूर्वं प्रदूमितो राज्ञां हृदयेऽग्निरिवोत्थितः॥ ४.२॥

पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः।
नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजाः॥ ४.३॥

समं एव समाक्रान्तं तस्योन्नयनपङ्क्तयः।
तेन सिंहासनं पित्र्यं अखिलं चारिमण्डलं॥ ४.४॥

छायामण्डललक्ष्येन तं अदृश्या किल स्वयं।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितं॥ ४.५॥

परिकल्पितसांनिध्या काले काले च बन्दिषु।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती॥ ४.६॥

मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः।
तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा॥ ४.७॥

स हि सर्वस्य लोकस्य युक्तदण्डतया मनः।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः॥ ४.८॥

मन्दोत्कण्टः कृतास्तेन गुणाधिकतया गुरौ।
फलेन सहकारस्य फुष्पोद्गम इव प्रजाः॥ ४.९॥

नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितं।
पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः॥ ४.१०॥

पञ्चानां अपि भूतानां उत्कर्षं पुपुषुर्गुणाः।
नवे तस्मिन्महीपाले सर्वं नवं इवाभवथ्॥ ४.११॥

यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनाथ्॥ ४.१२॥


कामं कर्णान्तविष्रान्ते विशाले तस्य लोचने।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना॥ ४.१३॥

लब्धप्रशमनस्वस्थं अथैनं समुपस्थिता।
पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा॥ ४.१४॥

निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः।
स्वं धनुः शङ्कितेनेव युगपद्व्यानशे दिशः॥ ४.१५॥

अधिज्यं आयुधं कर्तुं मुक्तवर्त्मा सुदुःसहः।
स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना॥ ४.१५*॥

वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ।
प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ॥ ४.१६॥

पुण्डरीकातपत्रस्तं विकसत्काशचामरः।
ऋतुर्विडम्बयां आस आसीत्समरसा द्वयोः॥ ४.१७॥

प्रसादरीकातपत्रस्तं चन्द्रे च विशदप्रभे।
तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः॥ ४.१८॥

हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु।
विभूतयय्स्तदीयानां पर्यस्ता यशसां इव॥ ४.१९॥

इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयं।
आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः॥ ४.२०॥

प्रससादोदयादम्भः कुम्भयोनेर्महौजसः।
रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः॥ ४.२१॥

मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः।
लीलाखेलं अनुप्रापुर्मोहक्षास्तस्य विक्रमं॥ ४.२२॥

प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः॥ ४.२३॥

सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान्।
यात्रायै चोदयां आस तं शक्तेः प्रथमं शरथ्॥ ४.२४॥

सम्यक्तस्मै घुतो वह्निर्वाजिनीराजनाविधौ।
प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ॥ ४.२५॥

स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः।
षड्विधं बलं आदाय प्रतस्थे दिग्जिगीषया॥ ४.२६॥

अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः।
पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतं॥ ४.२७॥

स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः॥ ४.२८॥

रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः।
भुवस्तलं इव व्य्ॐअ कुर्वन्व्य्ॐएव भूतलं॥ ४.२९॥

प्रतापोऽग्रे ततः शब्दः परागस्तदन्तरं।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः॥ ४.३०॥

मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः।
विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः॥ ४.३१॥

पुरोगैः कलुषास्तस्य सहप्रस्थायिभिः कृशाः।
पश्चात्प्रयायिभिः पङ्काश्चक्रिरे मार्गनिम्नगाः॥ ४.३१*॥

स सेनां महतीं कर्षन्पूर्वसागरगामिनीं।
बभौ हरजटाभ्रष्टां गङ्गां इव भगीरथः॥ ४.३२॥

त्याजितैः फलं उत्खातैर्भग्नैश्च बहुधा नृपैः।
तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः॥ ४.३३॥

पौरस्त्यानेवं आक्रामंस्तांस्ताञ्जनपदाञ्जयी।
प्राप तालीवन्श्यामं उपकञ्ठं महोदधेः॥ ४.३४॥

अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव।
आत्मा संरक्षितः सुह्मैर्वृत्तिं आश्रित्य वैतसीं॥ ४.३५॥

वङ्गानुत्खाय तरसा नेता नौसाधनोद्धतान्।
निचखान जयस्तम्भान्गङ्गास्रोतोऽन्तरेषु सः॥ ४.३६॥

आपादपद्मप्रणताः कलमा इव ते रघुं।
फलैः संवर्धयां आसुरुत्खातप्रतिर्पिताः॥ ४.३७॥

स तीर्त्वा कपिषां सैन्यैर्बद्धद्विरदसेतुभिः।
उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ॥ ४.३८॥

स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयथ्।
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः॥ ४.३९॥

प्रतिजग्राह कालिङ्गस्तं अस्त्रैर्गजसाधनः।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः॥ ४.४०॥

द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनं।
सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियं॥ ४.४१॥

वायव्यास्त्रविनिर्धूतात्पक्षाविद्धान्महोदधेः।
गजानीकात्स कालिङ्गं तार्क्ष्यः सर्पं इवाददे॥ ४.४१*॥

ताम्बूलीनां दलैस्तत्र रचितापानभूमयः।
नलिकेरासवं योधाः शात्रवं च पपुर्यशः॥ ४.४२॥

गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः।
श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीं॥ ४.४३॥

ततो वेलातटेनैव फलवत्पूगमालिना।
अगस्त्याचरितां आशां अनाशास्यजयो ययौ॥ ४.४४॥

स सैन्यपरिभोगेण गजदानसुगन्धिना।
कावेरीं सरितां पत्युः शङ्कनीयां इवाकरोथ्॥ ४.४५॥

बलैरधुषितास्तस्य विजिगीषोर्गताध्वनः।
मरिचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः॥ ४.४६॥

ससञ्जुरश्वक्षुण्णानां एलानां उत्पतिष्णवः।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः॥ ४.४७॥

आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसंभवं।
व्यानशे सपदि व्य्ॐअ त्रिपदीछेदिनां अपि॥ ४.४७*॥

भोगिवेष्टनमार्गेषु चन्दनानां समर्पितं।
न्ऽआस्रसत्करिणां ग्रैवं त्रिपदीछेदिनां अपि॥ ४.४८॥

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि।
तस्यां एव रघोः पाण्ड्याः प्रतापं न विषेहिरे॥ ४.४९॥

ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः।
ते निपत्य ददुस्तस्मै यशः स्वं इव संचितं॥ ४.५०॥

स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ॥ ४.५१॥

तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः।
रामास्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः॥ ४.५३॥

भयोत्सृष्टविभूषाणां तेन केरलयोषितां।
अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः॥ ४.५४॥

मुरलामारुतोद्धूतं अगमत्कैतकं रजः।
तद्योधवारबाणानां अयत्नपटवासतां॥ ४.५५॥

अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः।
वर्मभिः पवनोद्धूतराजतालीवनद्व्ह्वनैः॥ ४.५६॥

खर्जूरीस्कन्धनद्धानां मदोद्गार्तसुगन्धिषु।
कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः॥ ४.५७॥

अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ।
अपरान्तमहीपालव्याजेन रघवे करं॥ ४.५८॥

मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणं।
त्रिकूटं एव तत्रोच्चैर्जयस्तम्भं चकार सः॥ ४.५९॥

पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना।
इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी॥ ४.६०॥

यवनीमुखपद्मानां सेहे मधुमदं न सः।
बालातपं इवाब्जानां अकालजलदोदयः॥ ४.६१॥

संग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः।
शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूथ्॥ ४.६२॥

भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीं।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव॥ ४.६३॥

अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः।
प्रणिपातप्रतीकारः संरम्भो हि महात्मनां॥ ४.६४॥

विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमं।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु॥ ४.६५॥

ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशं।
शरैरुस्रैरिवोदीच्यानुद्धरिष्यं रसानिव॥ ४.६६॥

जितानजय्यस्तानेव कृत्वा रथपुरःसरान्।
महार्णवं इवौराग्निः प्रविवेशोत्तरापथं॥ ४.६६*॥

विनीताध्वश्रमास्तस्य सिन्धुतीरवेचेष्टनैः।
दुधुवुर्वाजिनः स्कन्धांल्लग्नकुङ्कुमकेसरान्॥ ४.६७॥

तत्र हूणावरोधानां भर्तृशु व्यक्तविक्रमं।
कपोलपाटलादेशि बभूव रघुचेष्टितं॥ ४.६८॥

काम्बोजाः समरे सोढुं तस्य वीर्यं अनीश्वराः।
गजालानपरिक्लिष्टैरक्षोटैः सार्धं आनताः॥ ४.६९॥

तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः।
उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरं॥ ४.७०॥

ततो गौरीगुरुं शैलं आरुरोहाश्वसाधनः।
वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः॥ ४.७१॥

शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमं।
गुहाशयानां सिंहानां परिवृत्यावलोकितं॥ ४.७२॥

भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः।
गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे॥ ४.७३॥

विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः।
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः॥ ४.७४॥

सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः।
आसन्नोषधयो नेतुर्नक्तं अस्नेहदीपिकाः॥ ४.७५॥

तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षत त्वचः।
गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः॥ ४.७६॥

तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैरभूथ्।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलं॥ ४.७७॥

शरैरुत्सवसंकेतान्स कृत्वा विरतोत्सवान्।
जयोदाहरणं बाह्वोर्गापयां आस किंनरान्॥ ४.७८॥

परस्परेण विज्ञातस्तेषूपायनपाणिषु।
राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा॥ ४.७९॥

तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोभ सः।
पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियं॥ ४.८०॥

चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः।
तद्गालानतां प्राप्तैः सह कालागुरुद्रुअमैः॥ ४.८१॥

न प्रसेहे स रुद्धार्कं अधारावर्षदुर्दिनं।
रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीं॥ ४.८२॥

तं ईशः कामरूपाणां अत्याखण्डलविक्रमं।
भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः॥ ४.८३॥

कामरूपेश्वरस्तस्य हेमपीठाधिदेवतां।
रत्नपुष्पोपहारेण च्छायां आनर्च पादयोः॥ ४.८४॥

इति जित्वा दिषो जिष्णुर्न्यवर्तत रथोद्धतं।
रजो विश्रामयन्राज्ञां छत्त्रशून्येषु मौलिषु॥ ४.८५॥

स विश्वजितं आजह्रे यज्ञं सर्वस्वदक्षिणं।
आदानं हि विसर्गाय सतं वारिमुचां इव॥ ४.८६॥

सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान्।
काकुत्स्थश्चिरविरहोत्सुकावरोधान्राजन्यान्स्वपुरनिवृत्तयेऽनुमेने॥ ४.८७॥

यज्ञान्ते तं अवभृथाबिषेकपूतं सत्कारैः शमितपराजयव्यलीकान्।
आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः स्वानि स्वान्यवनिभुजः पुराणि जग्मुः॥ ४.८७*॥

ते रेकाध्वजकुलिशातपत्रैचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यं।
प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुर्मौलिस्रक्च्युतमकरन्दरेणुगौरं॥ ४.८८॥

 

No posts

Comments

No posts

No posts

No posts

No posts