रघुवंशम् / चतुर्दशः सर्गः's image
15 min read

रघुवंशम् / चतुर्दशः सर्गः

KalidasKalidas
0 Bookmarks 188 Reads0 Likes

रघुवंशम् / चतुर्दशः सर्गः
उत्तिष्ठ वत्से ननु सानुजोऽसौ दशान्तरं तत्र समं प्रपन्ने।
अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ॥१४.१॥

उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ।
विस्पष्टं अस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भाथ्॥१४.२॥

आनन्दजः शोकजं अश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद।
गङ्गासरय्वोर्जलं उष्णत्पतं हिमाद्रिनिस्यन्द इवावतीर्णः॥१४.३॥

ते पुत्रयोर्नैरृतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ।
अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दं अकामयेतां॥१४.४॥

क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वं उदीरयन्ती।
स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे॥१४.५॥

उत्तिष्ठ वत्से ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव।
कृच्छ्रं महत्तीर्ण इति प्रियार्हां तां ऊचतुस्ते प्रियं अप्यमिथ्या॥१४.६॥

अथाभिषेकं रघुवंशकेतोः प्रारब्धं आनन्दजलैर्जनन्योः।
निर्वर्तयां आसुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः॥१४.७॥

सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि।
तस्यापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः॥१४.८॥

तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव।
राजेन्द्रनेपथ्यविधानशोभा रस्योदितासीत्पुनरुक्तदोषा॥१४.९॥

स मौलरक्षोहरिमिश्रसैन्यस्तूर्यस्वनानन्दितपौरवर्गः।
विवेष सौधोद्गतलाजवर्षां उत्तोरणां अन्वयराजधानीं॥१४.१०॥

स्ॐइत्रिणा सावरजेन मन्दं आधूतवालव्यजनो रथस्थः।
धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्धः॥१४.११॥

प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना।
वनान्निवृत्तेन रघूद्वहेन मुक्ता स्वयं वेणिरिवाभासे॥१४.१२॥

श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीं।
प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः॥१४.१३॥

स्फुरत्प्रभामण्डलं आनुसूयं सा बिभ्रती शाश्वतं अङ्गरागं।
रराज शुद्धेति पुनः स्वपुर्यै संदर्शित वह्निगतेव भर्त्रा॥१४.१४॥

वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्धनिधिः सुहृद्ब्यः।
बाष्पायमाणो बलिमन्निकेतं आलेख्यशेषस्य पितुर्विवेश॥१४.१५॥

कृताञ्जलिस्तत्र यदम्ब सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः।
तच्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः॥१४.१६॥

तथा च सुग्रीवविभीशणादीनुपाचरत्कृत्रिमसंविधाभिः।
संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन॥१४.१७॥

सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः।
शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवं आदधानं॥१४.१८॥

प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान्।
सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः॥१४.१९॥

तच्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन।
कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकं अन्वमंस्त॥१४.२०॥

पितुर्नियोगाद्वनवासं एवं निस्तीर्य रामः प्रतिपन्नराज्यः।
धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिं॥१४.२१॥

सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीथ्।
षडाननापीतपयोधरासु नेता चमूनां इव कृत्तिकासु॥१४.२२॥

तेनार्थवांल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान्।
तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेन पुत्री॥१४.२३॥

स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा।
उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या॥१४.२४॥

तयोर्यथाप्रार्थितं इन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु।
प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन्॥१४.२५॥

अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण।
आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन॥१४.२६॥

तां अङ्कं आरोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्रां।
विलज्जमानां रहसि प्रतीतः प्रप्रच्छ रामां रमणोऽभिलाषं॥१४.२७॥

सा दष्टनीवारबलीनिहिंस्रैः संबद्ध वैखानसकन्यकानि।
इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि॥१४.२८॥

तस्यै प्रतिश्रुत्य रघुप्रवीरस्तद्(?) ईप्सितं पार्श्वचरानुयातः।
आलोकयिष्यन्मुदितां अयोध्यां प्रासादं अभ्रंलिहं आरुरोह॥१४.२९॥

ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे॥१४.३०॥

स किंवदन्तीं वदतां पुरोगः स्वऋत्तं उद्दिश्य विशुद्धवृत्तः।
सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः॥१४.३१॥

निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयं।
अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव देव्याः॥१४.३२॥

कलत्रनिन्दागुरुणा किलैवं अभ्याहतं कीर्तिविपर्ययेण।
अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे॥१४.३३॥

किं आत्मनिर्वादकथां उपेक्षे जायां अदोषां उत संत्यजामि।
इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्तिः॥१४.३४॥

निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुं ऐच्छथ्।
अपि स्वदेहात्किं उतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः॥१४.३५॥

स संनिपात्यावरजान्हतौजास्तद्विक्रियादर्शनलुप्तहर्षान्।
कौलीनं आत्माश्रयं आचचक्षे तेभ्यः पुनश्चेदं उवाच वाक्यं॥१४.३६॥

राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयं।
मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य॥१४.३७॥

पौरेषु सोऽहं वहुलीभवन्तं अपां तरङ्गेष्विव तैलबिन्दुं।
सोढुं न तत्पूर्वं अवर्णं ईशे आलानिकं स्थाणुं इव द्विएपेन्द्रः॥१४.३८॥

तस्यापनोदाय फलप्रवृत्तावुपस्थितायां अपि निर्व्यपेक्षः।
त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव॥१४.३९॥

अवैमि चैनां अनघेति किं तु लोकापवादो बलवान्मतो मे।
छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः॥१४.४०॥

रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय।
अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः॥१४.४१॥

तदेष सर्गः करुणार्द्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः।
यद्यर्थिता निर्हृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः॥१४.४२॥

इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशं ईशं।
न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुं आसीदनुवर्तितुं वा॥१४.४३॥

स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः।
स्ॐयेति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश॥१४.४४॥

प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव।
स्ॐयेति चाभाष्य यथार्थभाषी प्रापय्य वाल्मीकिपदं त्यजैनां॥१४.४५॥

स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वथ्।
प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया॥१४.४६॥

अथानुकूलश्रवणप्रतीतां अत्रस्नुभिर्युक्तधुरं तुरंगैः।
रथं सुमन्त्र प्रतिपन्नरश्मिं आरोप्य वैदेहसुतां प्रतस्थे॥१४.४७॥

सा नीयमाना रुचिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दथ्।
नाबुद्ध कल्पद्रुमतां विहाय जातं तं आत्मन्यसिपत्त्रवृक्षं॥१४.४८॥

जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा।
आख्यातं अस्यै गुरु भावि दुःखं अत्यन्तलुप्तप्रियदर्शनेन॥१४.४९॥

सा दुर्निमित्तोपगताद्विषादात्सद्यः परिम्लानमुखारविन्दा।
राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरबाह्यैः॥१४.५०॥

गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन्।
अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा शितया पुरस्ताथ्॥१४.५१॥

रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृह्यायां पुलिनेऽवतार्य।
गङ्गां निषादाहृतनौविशेषस्ततार संधां इव सत्यसंधः॥१४.५२॥

अथ व्यवस्थापितवाक्कथंचित्स्ॐइत्रिरन्तर्गतबाष्पकण्ठः।
औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनं उज्जगार॥१४.५३॥

ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणस्प्रसूना।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम॥१४.५४॥

इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः।
इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावथ्॥१४.५५॥

सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः।
तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः॥१४.५६॥

न चावदद्भर्तुरवर्णं आर्या निराकरिष्णोर्वृजिनादृतेऽपि।
आत्मानं एव स्थिरदुःखबाजं पुनः पुनर्दुष्कृतिनं निनिन्द॥१४.५७॥

आश्वास्य रामावरजः सतीं तां आख्यातवाल्मीकिनिकेतमार्गः।
निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः॥१४.५८॥

सीता समुत्थाप्य जगाद वाक्यं प्रीतास्मि ते स्ॐयचिराय जीव।
विडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वं॥१४.५९॥

श्वश्रूजनं सर्वं अनुक्रमेण विज्ञापय प्रापितमत्प्रणामः।
प्रजानिशेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति॥१४.६०॥

वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धां अपि यत्समक्षं।
मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य॥१४.६१॥

कल्याणबुद्धेरथ वा तवायं न कामचारो मयि शङ्कनीयः।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः॥१४.६२॥

उपस्थितां पूर्वं अपास्य लक्ष्मीं वनं मया सार्धं असि प्रपन्नः।
तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती॥१४.६३॥

निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादाथ्।
भूत्वा शरण्या शरणार्थं अन्यां कथं प्रपत्स्ये त्वयि दीप्यमाने॥१४.६४॥

किं वा तवात्यन्तवियोगमोघे कुर्यां उपेक्षां हतजीवितेऽस्मिन्।
स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयं अन्तर्गतं अन्तरायः॥१४.६५॥

साहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेस्चरितुं यतिष्ये।
तथा यथा मे जननान्तरेऽपि त्वं एव भर्ता न च विप्रयोगः॥१४.६६॥

नृपस्य वर्णाश्रमरक्षणं यत्स एव धर्मो मनुना प्रणीतः।
निर्वासिताप्येवं अतस्त्वयाहं तपस्विसामान्यं अवेक्षणीया॥१४.६७॥

तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृश्टिपथं व्यतीते।
सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः॥१४.६८॥

नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः।
तस्याः प्रपन्ने समदुःखभावं अत्यन्तं आसीद्रुदितं वनेऽपि॥१४.६९॥

तां अभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वं आपद्यत यस्य शोकः॥१४.७०॥

तं अश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे।
तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुर्त्राशिषं इत्युवाच॥१४.७१॥

जाने विषृश्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा।
तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर्निकेतं॥१४.७२॥

उथ्कातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे॥१४.७३॥

तवेन्दुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या॥१४.७४॥

तपस्विसंसर्गविनितत्सत्त्वे तपोवने वीतभया वसास्मिन्।
इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते॥१४.७५॥

अशून्यतीरां मुनिसंनिवेशैस्तमोऽपहन्त्रीं तमसां विगाह्य।
तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः॥१४.७६॥

पुष्पं फलं चार्तवं आहरन्त्यो बीजं च बालेयं अकृष्टरोहि।
विनोदयिष्यन्ति नवाभिषङ्गां उदारवाचो मुनिकन्यकास्त्वां॥१४.७७॥

पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः।
असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिं अवाप्स्यसि त्वं॥१४.७८॥

अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः।
सायं मृगाध्यासितवेदिपार्श्वं स्वं आश्रमं शान्तमृगं निनाय॥१४.७९॥

तां अर्पयां आस च शोकदीनां तदागमप्रीतिषु तापसीषु।
निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु॥१४.८०॥

ता इङ्गुदीस्नेहकृतप्रदीपं आस्तीर्णमेध्याजिनतल्पं अन्तः।
तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः॥१४.८१॥

तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः।
वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार॥१४.८२॥

अपि प्रभुः सानुशयोऽधुना स्यात्किं उत्सुकः शक्रजितोऽपि हन्ता।
शशंस सीतापरिदेवनान्तं अनुष्ठितं शासनं अग्रजाय॥१४.८३॥

बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः।
कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः॥१४.८४॥

निगृह्य शोकं स्वयं एव धीमान्वर्णाश्रमावेक्षणजागरूकः।
स भ्रातृसाधारणभोगं ऋद्धं राज्यं रजोरिक्तमनाः शशास॥१४.८५॥

तां एकभार्यां परिवादभीरोः साध्वीं अपि त्यक्तवतो नृपस्य।
वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः॥१४.८६

सीतां हित्वा दशमुखरिपुर्नोपयेम यदन्यां तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथं अपि परित्यागदुःखं विषेहे॥१४.८७॥

No posts

Comments

No posts

No posts

No posts

No posts