रघुवंशम् / अष्टादशः सर्गः's image
9 min read

रघुवंशम् / अष्टादशः सर्गः

KalidasKalidas
0 Bookmarks 67 Reads0 Likes

रघुवंशम् / अष्टादशः सर्गः
स नैषधस्यार्थपतेः सुतायां उत्पादयां आस निषिद्धशत्रुः।
अनूनसारं निषधान्नगेन्द्रात्पुत्रं यं आहुर्निषधाख्यं एव।। १८.१॥

तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना।
सुवृष्तियोगादिव जीवलोकः सस्येन संपत्तिफलात्मकेन।। १८.२॥

शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः।
क्ॐउद्वतेयः कुमुदावदातैर्द्यां अर्जितां कर्मभिरारुरोह।। १८.३॥

पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः।
एकातपोअत्रां भुवं एकवीरः पुरार्गलादीर्घभुजो बुभोज।। १८.४॥

तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः।
यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनाभवक्त्रः।। १८.५॥

नभश्चरैर्गीतयश्यामतनुं तनूजं नभस्तलश्यामतनुं तनूजं।
ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभ्ॐआसं इव प्रजानां।। १८.६॥

तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वं।
मृगैरजर्यं जरस्पोदैष्टं अदेहबन्धाय पुनर्बबन्ध।। १८.७॥

तेन द्विपानां इव पुण्डरीको राज्ञां अजय्योऽजनि पुण्डरीकः।
शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षं इवाश्रिता श्रीः।। १८.८॥

स क्षेमधन्वानं अमोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षं।
क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार।। १८.९॥

अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूथ्।
व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य।। १८.१०॥

पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन।
पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान्बभूव।। १८.११॥

पूर्वस्तयोरात्मसमे चिरोढां आत्मोद्भवे वर्णचतुष्टयस्य।
धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकं।। १८.१२॥

वशी सुतस्तस्य वशंवदत्वात्स्वेषां इवासीद्द्विषतां अपीष्टः।
सकृद्(?) विविग्नानपि हि प्रयुक्तं माधुर्यं ईष्टे हरिणान्ग्रहीतुं।। १८.१३॥

अहीनगुर्नाम स गां समग्रां अहीनबाहुद्रविणः शशास।
यो हीन संसर्गपराङ्मुखत्वाद्माधुर्यं ईष्टे हरिणान्ग्रहीतुं।। १८.१४॥

गुरोः स चानन्तरं अन्तर्ज्ञः पुंसां पुमानाद्य इवावतीर्णः।
उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव।। १८.१५॥

तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयं।
उच्चैःशिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रं।। १८.१६॥

तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः।
जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतां अव्रजदीड्यमानः।। १८.१७॥

तं आत्मसंपन्नं अनिन्दितात्मा कृत्वा युवानं युवराजं एव।
सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञां उपरुद्धवृत्तं।। १८.१८॥

तं रागबन्धिष्ववितृप्तं एव भोगेषु सौभाग्यविशेषभोग्यं।
विलासिनीनां अरतिक्षमापि जरा वृथा मत्सरिणी जहार।। १८.१९॥

उन्नाभ इत्युदग्तस्नामधेयस्तस्यायथार्थोन्नतनाभ्हिरन्ध्रः।
सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य।। १८.२०॥

ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः।
बभूव वज्राकरभुषणायाः पतिः पृथिव्याः किल वज्रनाभः।। १८.२१॥

तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणं अर्णवान्ता।
उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः।। १८.२२॥

तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदं अश्विरूपः।
वेलातटेषूषितसैनिकाश्वं पुराविदो यं ध्युषिताश्वं आहुः।। १८.२३॥

आराध्य विश्वेश्वरं ईश्वरेण तेन क्षितेर्विश्वसहोऽधिजज्ञे।
पातुं सहो विश्वसखः समग्रां विश्वंभरां आत्मजमूर्तिरात्मा।। १८.२४॥

अंशे हिरण्याक्शरिपोः स जाते हिरण्यनाभे तनये नयज्ञः।
द्विषां असह्यः सुतरां तरूणां हिरण्यरेता सानिलोऽभूथ्।। १८.२५॥

पिता पितःणां अनृणस्तं अन्ते वयस्यनन्तानि सुखानि लिप्सुः।
राजानं आजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव।। १८.२६॥

कौसल्य इत्युत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य।
तस्यौरसः स्ॐअसुतः सुतोऽभून्नेत्रोत्सवः स्ॐअ इव द्वितीयः।। १८.२७॥

कौसल्य इत्युत्तरकोसलानां स ब्रह्मभूयं गतिं आजगाम।
ब्रह्मिष्ठं आधाय निजेऽधिकारे ब्रह्मिष्ठं एव स्वतनुप्रसूतं।। १८.२८॥

यशोभिराब्रह्मसभं प्रकाशः सम्यग्महीं शासति शासनाङ्कां।
प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः।। १८.२९॥

पात्रीकृतात्मा गुरुसेवनेन स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः।
तं पुत्रिणां पुष्करपत्त्रनेत्रः पुत्रः समारोपयदग्रसंख्यां।। १८.३०॥

वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः।
उपस्पृषन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वं आप।। १८.३१॥

तस्य प्रभानिर्जितपुष्प-रागं पौष्यं तिथौ पुष्यं असूत पत्नी।
यस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये।। १८.३२॥

महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा।
तस्मात्सयोगादधिगम्य योगं अजन्मनेऽकल्पत जन्मभीरुः।। १८.३३॥

ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीं।
यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतां अरीणां।। १८.३४॥

सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः।
मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः।। १८.३५॥

स्वर्गामिनस्तस्य तं ऐकमत्यादमात्यवर्गः कुलतन्तुं एकं।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार।। १८.३६॥

ववेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन।
रघोः कुलं कुड्मलपङ्कजेन तोयेन चाप्रौष्हनरेन्द्रं आसीथ्।। १८.३७॥

लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः।
दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातं अवाप्य मेघः।। १८.३८॥

तं राजवीथ्यां अधिहस्ति यान्तं आधोरणालम्बितं अग्र्यवेषं।
षड्वर्षदेशियं अपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण।। १८.३९॥

कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय।
तेज्ॐअहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण।। १८.४०॥

तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठं।
सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ।। १८.४१॥

मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि।। १८.४२॥

पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षथ्।
तस्याननादुच्चरितो विवादश्चक्शाल वेलास्वपि नार्णवानां।। १८.४३॥

निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार।। १८.४४॥

शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि श्रुतवृद्धयोगाथ्।
नितान्तगुर्वीं अपि चानुभावाद्धुरं धरित्र्या बिभरां बभूव।। १८.४५॥

न्यस्ताक्षरां अक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावथ्।
सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः।। १८.४६॥

उरस्यपर्याप्तभागा प्रौढीभविष्यन्तं उदीक्षमाणा।
संजातलज्जेव तं आतपत्रछ्हायाछलेनोपजुगूह लक्ष्मीः।। १८.४७॥

अनश्नुवानेन युगोपमानं अबद्धमौर्वीकिणलाञ्छनेन।
अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः।। १८.४८॥

न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिं।
वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानं आपुः।। १८.४९॥

स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणां।
तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः।। १८.५०॥

व्यूह्य स्थितः किंचिदिवोत्तरार्धं उन्नद्धचूडोऽञ्चितस्व्यजानुः।
आकर्णं आकृष्टसबानधन्वा व्यरोचत्ऽ आस्ते स विनीयमानः।। १८.५१॥

अथ मधु वनितां नेत्रनिर्वेशनीयं मनसिजतरुपुष्पं रागबन्धप्रवालं।
अकृतकविधि सर्वाङ्गीणं आकल्पजातं विलसितपदं आद्यं यौवनं स प्रपेदे।। १८.५२॥

प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः।
अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः।। १८.५३॥

 

No posts

Comments

No posts

No posts

No posts

No posts