कुमारसम्भवम् / त्रयोदशः सर्गः's image
9 min read

कुमारसम्भवम् / त्रयोदशः सर्गः

KalidasKalidas
0 Bookmarks 125 Reads0 Likes

कुमारसम्भवम् / त्रयोदशः सर्गः
प्रस्थानकालोचितचारुवेषः स स्वर्गिवर्गैरनुगम्यमानः।
ततः कुमारः शिरसा नतेन त्रैलोक्यभर्तुः प्रणनाम पादौ॥१॥

जहीन्द्रशत्रुं समरेऽमरेशपदं स्थिरत्वं नय वीर वत्स।
इत्याशिषा तं प्रणमन्तमीशो मूर्धन्युपाघ्राय मुदाभ्यनन्दत्॥२॥

प्रह्वीभवन्नम्रतरेण मूर्ध्ना नमश्चकाराङ्घ्रियुगं स्वमातुः।
तस्याः प्रमोदाश्रुपयः प्रवृष्टिस्तस्याभवद्वीरवराभिषेकः॥३॥

तमङ्कमारोप्य सुता हिमाद्रेराश्लिष्य गाढं सुतवत्सला सा।
शिरस्युपाघ्राय जगाद शत्रुं जित्वा कृतार्थीकुरु वीरसूं माम्॥४॥

उद्दाम दैत्येशविपत्तिहेतुः श्रद्धालुचेताः समरोत्सवस्य।
आपृच्छ्य भक्त्या गिरिजागिरीशौ ततः प्रतस्थेऽभिदिवं कुमारः॥५॥

देवं महेशं गिरीजां च देवीं ततः प्रणम्य त्रिदिवौकसोऽपि।
प्रदक्षिणीकृत्य च नाकनाथपूर्वाः समस्तास्तमथानुजग्मुः॥६॥

अथ व्रजद्भिस्त्रिदशै रशेषैः स्फुरत्प्रभा भासुरमण्डलैस्तैः।
नभो बभासे परितो विकीर्णं दिवापि नक्षत्रगणैरिवोग्रैः॥७॥

रराज तेषां व्रजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः।
नक्षत्रताराग्रहमण्डलानामिव त्रियामारमणो नभोन्ते॥८॥

गिरीशगौरीतनयेन सार्धं पुलोमपुत्रीदयितादयस्ते।
उत्तीर्य नक्षत्रपथं मुहूर्तात्प्रपेदिरे लोक मथात्मनीनम्॥९॥

ते स्वर्गलोकं चिरकालदृष्टं महासुरत्रासवशंवदत्वात्।
सद्यः प्रवेष्टुं न विषेहिरे तं क्षणं व्यलम्बन्त सुराः समग्राः॥१०॥

पुरो भव त्वं, न पुरो भवामि, नाहं पुरोगोऽस्मि, पुरः सरस्त्वम्।
इत्थं सुरास्तत्क्षणमेव भीताः स्वर्गं प्रवेष्टुं कलहं वितेनुः॥११॥

सुरालयालोकनकौतुकेन मुदा शुचिस्मेरविलोचनास्ते।
दधुः कुमारस्य मुखारविन्दे दृष्टिं द्विषत्साध्वस कातरान्ताम्॥१२॥

सहेलहासच्छुरिताननेन्दुस्ततः कुमारः पुरतो भविष्णुः।
स तारकापातमपेक्षमाणो रणप्रवीरो हि सुरानवोचत्॥१३॥

भीत्यालमद्य त्रिदिवौकसोऽमी स्वर्गं भवन्तः प्रविशन्तु सद्यः।
अत्रैव मे दृक्पथमेतु शत्रुर्महासुरो वः खलु दृष्टपूर्वः॥१४॥

स्वर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलं वल्गति यस्य चण्डम्।
इहैव तच्छोणितपानकेलिमह्नाय कुर्वन्तु शरा ममैते॥१५॥

शक्तिर्ममासावहतप्रचारा प्रभावसारा सुमहःप्रसारा।
स्वर्लोकलक्ष्म्या विपदावहारेः शिरो हरन्ती दिशन्तान्मुदं वः॥१६॥

इत्यन्धकारातिसुतस्य दैत्यवधाय युद्धोत्सुकमानसस्य।
सर्वं शुचिस्मेरमुखारविन्दं गीर्वाणवृन्दं वचसा ननन्द॥१७॥

सान्द्रप्रमोदात्पुलकोपगूढः सर्वाङ्गसंफुल्लसहस्त्रनेत्रः।
तस्योत्तरीयेण निजाम्बरेण निरुञ्छनचारु चकार शक्रः॥१८॥

घनप्रमोदाश्रुतरङ्गिताक्षैर्मुखैश्चतुर्भिः प्रचुरप्रसादैः।
अथो अचुम्बद्विधिरादिवृद्धः षडाननं षट्सु शिरःसु चित्रम्॥१९॥

तं साधु साध्वित्यभितः प्रशस्य मुदा कुमारं त्रिपुरासुरारेः।
आनन्दयन्वीर ! जयेति वाचा गन्धर्वविद्याधरसिद्धसङ्घाः॥२०॥

दिव्यर्षयः शत्रुविजेष्यमाणं तमभ्यनन्दन्किल नारदाद्याः।
निरुञ्छनं चक्रुरथोत्तरीयैश्चामीकरीयैर्निजवल्कलैश्च॥२१॥

ततः सुराः शक्तिधरस्य तस्यावष्टम्भतः साध्वसमुत्सृजन्तः।
उत्सेहिरे स्वर्गमनन्तशक्ते र्गन्तुं वनं यूथपतेरिवेभाः॥२२॥

अथाभिपृष्ठं गिरिजासुतस्य पुरंदरारातिवधं चिकीर्षोः।
सुरा निरीयुस्त्रिपुरं दिधक्षोरिव स्मरारेः प्रमथः समन्तात्॥२३॥

सुराङ्गनानां जलकेलिभाजां प्रक्षालितैः संततमङ्गरागैः।
प्रपेदिरे पिञ्जरवारिपूरां स्वर्गौकसः स्वर्गधुनीं पुरस्तात्॥२४॥

दिग्दन्तिनां वारिविहारभाजां कराहतैर्भीमतरैस्तरङ्गैः।
आप्लावयन्तीं मुहुरालबालश्रेणिं तरूणां निजतीरजानाम्॥२५॥

लीलारसाभिः सुरकन्यकाभि र्हिरण्मयीभिः सिकताभिरुच्चैः।
माणिक्यगर्भाभिरुपाहिताभिः प्रकीर्णतीरां वरवेदिकाभिः॥२६॥

सौरभ्यलुब्धभ्रमरोपगीतैर्हिरण्यहंसावलिकेलिलोलैः।
चामीकरीयैः कमलैर्विनिद्रैश्च्युतैः परागैः परिपिङ्गतोयाम्॥२७॥

कुतूहलात्प्रष्टुमुपागताभि स्तीरस्थिताभिः सुरसुन्दरीभिः।
अभ्यूर्मिराजिप्रतिबिम्बिताभिर्मुदं दिशन्तीं व्रजतां जनानाम्॥२८॥

ननन्द सद्यश्चिरकालदृष्टां विलोक्य शक्रः सुरदीर्घिकां ताम्।
अदर्शयत्सादरमद्रिपुत्रीमहेशपुत्राय ततः पुरोगः॥२९॥

स कार्त्तिकेयः पुरतः परीतः सुरै समस्तैः सुरनिम्नगां ताम्।
अपूर्वदृष्टामवलोकमानः सविस्मयः स्मेरविलोचनोऽभूत्॥३०॥

उपेत्य तां तत्र किरीटकोटिन्यस्ताञ्जलिर्भक्तिपरः कुमारः।
गीर्वाणवृन्दैः प्रणुतां प्रणुत्य नम्रेण मूर्ध्ना मुदितो ववन्दे॥३१॥

प्रणर्तितस्मेरसरोजराजिः पुरः परीरम्भमिलन्महोर्मिः।
कपोलपालिश्रमवारिहारी भेजे गुहं तं सरितः समीरः॥३२॥

ततो व्रजन्नन्दननामधेयं लीलावनं जम्भजितः पुरस्तात्।
विभिन्नभग्नोद्धृतशालसङ्घं प्रेक्षांचकार स्मरशत्रुसूनुः॥३३॥

सुरद्विषोपप्लुतमेवमेतद्वनं बलस्य द्विषतो गतश्रि।
इत्थं विचिन्त्यारुणलोचनोऽभूद् भ्रुभङ्गदुष्प्रेक्ष्यमुखः स कोपात्॥३४॥

निर्लूनलीलोपवनामपश्यद्दुःसञ्चरीभूतविमानमार्गाम्।
विध्वस्तसौधप्रचयां कुमारो विश्वैकसाराममरावतीं सः॥३५॥

गतश्रियं वैरिवराभिभूतां दशां सुदीनामभितो दधानाम्।
नारीमवीरामिव तामवेक्ष्य स वाढमन्तः करुणापरोऽभूत्॥३६॥

दुश्चेष्टिते देवरिपौ सरोषस्तस्याविषण्णः समराय चोत्कः।
तथाविधां तां स विवेश पश्यन्सुरैः सुराधीश्वरराजधानीम्॥३७॥

दैतेयदन्त्यावलिदन्तघातैः क्षुण्णान्तराः स्फाटिकहर्म्यपङ्क्तीः।
महाहिनिर्मोकपिनद्धजालाः स वीक्ष्य तस्यां विषसाद सद्यः॥३८॥

उत्कीर्णचामीकरपङ्कजानां दिग्दन्तिदानद्रवदूषितानाम्।
हिरण्यहंसव्रजवर्जितानां विदीर्णवैढूर्यमहाशिलानाम्॥३९॥

आविर्भवद्वालतृणाञ्चितानां तदीयलीलागृहदीर्घिकाणाम्।
स दुर्दशां वीक्ष्य विरोधिजातां विषादवैलक्ष्यभरं बभार॥४०॥

तद्दन्तिदन्तक्षतहेमभित्ति सुतन्तुजालाकुलरत्नजालाम्।
निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम्॥४१॥

निर्दिष्टवर्त्मा बिवुधेश्वरेण सुरैः समग्रैरनुगम्यमानः।
स प्राविशत्तं विविधाश्मरश्मिच्छिन्नेन सोपानपथेन सौधम्॥४२॥

निसर्गकल्पद्रुमतोरणं तं स पारिजातप्रसवस्रगाढ्यम्।
दिव्यैः कृतस्वस्त्ययनं मुनीन्द्रैरन्तःप्रविष्टप्रमदं प्रपेदे॥४३॥

पादौ महर्षेः किल कश्यपस्य कुलादिवृद्धस्य सुरासुराणाम्।
प्रदक्षिणीकृत्य कृताञ्जलिः सन्षङ्भिः शिरोभिः स नतैर्ववन्दे॥४४॥

स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनाम कामम्।
मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवञ्शैलसुतातनूजः॥४५॥

स कश्यपः सा जननी सुराणां तमेधयामासतुराशिषा द्वौ।
तया यया नैकजगज्जिगीषुं जेता मृधे तारकमुग्रवीर्यम्॥४६॥

स्वदर्शनार्थं समुपेयुषीणां सुदेवतानामदितिश्रितानाम्।
पादौ ववन्दे पतिदेवतास्तमाशीर्वचोभिः पुनरभ्यनन्दन्॥४७॥

पुलोमपुत्रीं विबुधाधिभर्तुस्ततः शचीं नाम कलत्रमेषः।
नमश्चकार स्मरशत्रुसूनुस्तमाशिषा सा समुपाचरच्च॥४८॥

अथादितीन्द्रप्रमदाः समेतास्ता मातरः सप्त घनप्रमोदाः।
उपेत्य भक्त्या नमते महेशपुत्राय तस्मै ददुराशिषः प्राक्॥४९॥

समेत्य सर्वेऽपि मुदं दधाना महेन्द्रमुख्यास्त्रिदिवौकसोऽथ।
आनन्दकल्लोलितमानसं तं समभ्यषिञ्चन्पृतनाधिपत्ये॥५०॥

सकलविबुधलोकः स्रस्तनिःशेषशोकः
कृतरिपुविजयाशः प्राप्तयुद्धावकाशः।
अजनि हरसुतेनानन्तवीर्येण तेना-
खिलविबुधचमूनां प्राप्य लक्ष्मीमनूनाम्॥५१॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्री-
सीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये

कुमारसैनापत्याभिषेको नाम त्रयोदशः सर्गः।

 

No posts

Comments

No posts

No posts

No posts

No posts