कुमारसम्भवम् / षोडशः सर्गः's image
7 min read

कुमारसम्भवम् / षोडशः सर्गः

KalidasKalidas
0 Bookmarks 113 Reads0 Likes

कुमारसम्भवम् / षोडशः सर्गः
अथान्योन्यं विमुक्तास्त्रशस्त्रजालैर्भयंकरैः।
युद्धमासीत्सुनासीरसुरारिबलयोर्महत्॥१॥

पत्तिः पत्तिमभीयाय रणाय रथिनं रथी।
तुरङ्गस्थं तुरड्‌गस्थो दन्तिस्थं दन्तिनि स्थितः॥२॥

युद्धाय धावतां धीरं वीराणामितरेतरम्।
वैतालिकाः कुलाधीशा नामान्यलमुदाहरन्॥३॥

पठतां वन्दिवृन्दानां प्रवीरा विक्रमावलीम्।
क्षणं विलम्ब्य चित्तानि ददुर्युद्धोत्सुकाः पुरः॥४॥

सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाञ्चिते।
आसीत्कवचविच्छेदो वीराणां मिलतां मिथः॥५॥

निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुत्थितैः।
आसन्ध्योमदिशस्तूलैः पलितैरिव पाण्डुराः॥६॥

खड्गा रुधिरसंलिप्ताश्चण्डांशुकरभासुराः।
इतस्ततोऽपि वीराणां विद्युतां वैभवं दधुः॥७॥

विसृजन्तो मुखैर्ज्वाला भीमा इव भुजंगमाः।
विसृष्टाः सुभटै रुष्टैर्व्योम व्यानशिरे शराः॥८॥

बाढं वपूंषि निर्भिद्य धन्विनां निघ्नतां मिथः।
अशोणितमुखा भूमिं प्राविशन्दूरमाशुगाः॥९॥

निर्भिद्य दन्तिनः पूर्वं पातयामासुराशुगाः।
पेतुः प्रवरयोधानां प्रीतानामाहवोत्सवे॥१०॥

ज्वलदग्निमुखैर्वाणैर्नीरन्ध्रैरितरेतरम्।
उच्चैर्वैमानिका व्योम्नि कीर्णे दूरमपासरन्॥११॥

विभिन्नं धन्विनां बाणैर्व्यथार्तमिव विह्वलम्।
ररास विरसं व्योम श्येनप्रतिरवच्छलात्॥१२॥

चापैराकर्णमाकृष्टैर्विमुक्ता दूरमाशुगाः।
अधाबन्रुधिरास्वादलुब्धा इव रणैषिणाम्॥१३॥

गृहीताः पाणिभिर्वीरैर्विकोशाः खङ्गराजयः।
कान्तिजालच्छलादाजौ व्यहसन्संमदादिव॥१४॥

खड्गाः शोणितसंदिग्धा नृत्यन्तो वीरपाणिषु।
रजोघने रणेऽनन्ते विद्युतां वैभवं दधुः॥१५॥

कुन्ताश्चकाशिरे चण्डमुल्लसन्तो रणार्थिनाम्।
जिह्वाभोगा यमस्येव लेलिहाना रणाङ्गणे॥१६॥

प्रज्वलत्कान्तिचक्राणि चक्राणि वरचक्रिणाम्।
चण्डांशुमण्डलश्रीणि रणव्योमनि बभ्रमुः॥१७॥

केचिद्धीरैः प्रणादैश्च वीराणामभ्युपेयुषाम्।
निपेतुः क्षोभतो वाहादपरे मुमुहुर्मदात्॥१८॥

कश्चिदभ्यागते वीरे जिघांसौ मुदमादधौ
परावृत्य गते क्षुब्धे विषसादाहवप्रियः॥१९॥

बहुभिः सह युद्ध्वा वा परिभ्रम्य रणोल्बणाः।
उद्दिश्य तानुपेयुः केऽपि ये पूर्ववृता रणे॥२०॥

अभितोऽभ्यागतान्योद्धुं वीरान्रणमदोद्धतान्।
प्रत्यनन्दन्भुजादण्डरोमोद्गमभृतो भटाः॥२१॥

शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युतान्यधः।
अध्याहवक्षेत्रमुप्तकीर्तिबीजाङ्कुरश्रियम्॥२२॥

वीराणां विषमैर्घोषूर्विद्रुता वारणा रणे।
शास्यमाना अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः १६.२३॥

रणे वाणगणैर्भिन्ना भ्रमन्तो भिन्नयोधिनः।
निममज्जुर्मिलद्रक्तनिम्नगासु महागजाः॥२४॥

अपारेऽसृक्सरित्पूरे रथेषूच्चैस्तरेष्वपि।
रथिनोऽभिरिपुं क्रुद्धा हुंकृतैर्व्यसृजञ्शरान्॥२५॥

खड्गनिर्लूनमूर्धानो व्यापतन्तोऽपि वाजिनः।
प्रथमं पातयामासुरसिना दारितानरीन्॥२६॥

वीराणां शस्त्रभिन्नानि शिरांसि निपतन्त्यपि।
अधावन्दन्तदष्टोष्ठभीमान्यभिरिपुं क्रुधा॥२७॥

शिरांसि वरयोधानामर्धचन्द्रहृतान्यलम्।
आदधाना भृशं पादैः श्येना व्यानशिरे नभः॥२८॥

क्रोधादभ्यापतद्दन्तिदन्तारुढाः पदातयः।
अश्वारोहा गजारोहप्राणान्प्रासैरपाहरन्॥२९॥

शस्त्रच्छिन्नगजारोहा विभ्रमन्त इतस्ततः।
युगान्तवातचलिताः शैला इव गजा बभुः॥३०॥

मिलितेषु मिथो योद्धुं दन्तिषु प्रसभं भटाः।
अगृह्णन्युद्ध्यमानाश्च शस्त्रैः प्राणान्परस्परम्॥३१॥

रुषा मिथो मिलद्दन्तिदन्तसंघर्षजोऽनलः।
योधाञ्शस्त्रहृतप्राणानदहत्सहसारिभिः॥३२॥

आक्षिप्ता अपि दन्तीन्द्राः कोपनैः पत्तयः परम्।
तदसूनहरन्खड्गघातैः स्वस्य पुरः प्रभोः॥३३॥

उत्क्षिप्य करिभिर्दूरान्मुक्तानां योधिनां दिवि।
प्रापि जीवात्मभिर्दिव्या गतिर्वा विग्रहैर्मही॥३४॥

खड्गैर्धवलधारालैर्निहत्य करिणां करान्।
तैर्भुवापि समं विद्धान्संतोषं न भटा ययुः॥३५॥

आक्षिप्याभिदिवं नीताः पत्तयः करिभिः करः।
दिव्याङ्गनाभिरादातुं रक्ताभिर्द्रुतमीषिरे॥३६॥

धन्विनस्तुरगारुढा गजारोहाञ्शरैः क्षतान्।
प्रत्यैच्छन्मूर्च्छितान्भूयो योद्धुमाश्वसतश्चिरम्॥३७॥

क्रुद्धस्य दन्तिनः पत्तिर्जिघृक्षोरसिना करम्।
निर्भिद्य दन्तमुसलावारुरोह जिघृक्षया॥३८॥

खड्गेन मूलतो हत्वा दन्तिनो रदनद्वयम्।
प्रातिपक्ष्ये प्रविष्टोऽपि पदातिर्निरगाद्द्रुतम्॥३९॥

करेण करिणा वीरः सुगृहीतोऽपि कोपिना।
असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः॥४०॥

तुरङ्गी तुरगारुढं प्रासेनाहत्य वक्षसि।
पततस्तस्य नाज्ञासीत्प्रसघातं स्वके हृदि॥४१॥

द्विषा प्रासहृतप्राणो वाजिपृष्ठदृढासनः।
हस्तोद्धृतमहाप्रासो भुवि जीवन्निवाभ्रमत्॥४२॥

तुरङ्गसादिनं शस्त्रहृतप्राणं मतं भुवि।
अबद्धोऽपि महावाजी न साश्रुनयनोऽत्यजत्॥४३॥

भल्लेन शितधारेण भिन्नोऽपि रिपुणाश्वगः।
नामूर्च्छत्कोपतो हन्तुमियेष प्रपतन्नपि॥४४॥

मिथः प्रासाहतौ वाजिच्युतौ भूमिगतौ रुषा।
शस्त्र्या युयुधतुः कौचित्कोशाकेशि भुजाभुजि॥४५॥

रथिनो रथिभिर्बाणैर्हृतप्राणा दृढासनाः।
क्षतकार्मुकसंधानाः सप्राणा इव मेनिरे॥४६॥

न रथी रथिनं भूयः प्राहरच्छस्त्रमूर्च्छितम्।
प्रत्याश्वसन्तमन्विच्छन्नातिष्ठद्युधि लोभतः॥४७॥

अन्योन्यं रथिनौ कौचिद्गतप्राणौ दिवं गतौ।
एकामप्सरसं प्राप्य युयुधाते वरायुधौ॥४८॥

मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रथिनौ रुचा।
खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम्॥४९॥

रणाङ्गणे शोणितपङ्कपिच्छिले कथं कथं चिन्ननृतुर्धृतायुधाः।
नदत्सु तुर्येषु परेतयोषितां गणेषु गायत्सु कबन्धराजयः॥५०॥

इति सुररिपुर्वृत्ते युद्धे सुरासुरसैन्ययो
रुधिरसरितां मज्जद्दन्तिव्रजेषु तटेष्वलम्।
अरुणनयनः क्रोधाद्भीमभ्रमद्भृकुटीमुखः
सपदि ककुभामीशानभ्यागमत्सयुयुत्सया॥५१॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसम्भवे-महाकाव्ये

सुरासुरसैन्यसंग्रामवर्णनं नाम षोडशः सर्गः॥

 

No posts

Comments

No posts

No posts

No posts

No posts