कुमारसम्भवम् / षष्ठः सर्गः's image
12 min read

कुमारसम्भवम् / षष्ठः सर्गः

KalidasKalidas
0 Bookmarks 525 Reads0 Likes

कुमारसम्भवम् / षष्ठः सर्गः
अथ विश्वात्मने गौरी संदिदेश मिथः सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥१॥

तया व्याहृतसंदेशा सा बभौ निभृता प्रिये।
चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी॥२॥

स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम्।
ऋषीञ्ज्योतिर्मयान्सप्त सस्मार स्मरशासनः॥३॥

ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः।
सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः॥४॥

आप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु।
व्योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु॥५॥

मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः।
रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः॥६॥

अधःप्रस्थापिताश्वेन समावर्जितकेतुना।
सहस्ररश्मिना साक्षात्सप्रणाममुदीक्षिताः॥७॥

आसक्तबाहुलतया सार्धमुद्धृतया भुवा।
महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि॥८॥

सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम्।
पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः॥९॥

प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम्।
तपसामुपभुञ्जानाः फलान्यपि तपस्विनः॥१०॥

तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा।
साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती॥११॥

तामगौरवभेदेन मुनींश्चापश्यदीश्वरः।
स्त्रीपुमानत्यनास्थैषा वृत्तं हि महितं सताम्॥१२॥

तद्दर्शनादभूच्छंभोर्भूयान्दारार्थमादरः।
क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम्॥१३॥

धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति।
पूर्वापराधभीतस्य कामस्योच्छ्वसितं मनः॥१४॥

अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम्।
इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः॥१५॥

यद् ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम्।
यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः॥१६॥

यदध्यक्षेण जगतां वयमारोपितास्त्वया।
मनोरथस्याविषयं मनोविषयमात्मनः॥१७॥

यस्य चेतसि वर्तेथाः, स तावत्कृतिनां वरः।
किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तवे॥१८॥

सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम्।
अद्य तूच्चैस्तरं ताभ्यां स्मरणानुग्रहात्तव॥१९॥

त्वत्संभावितमात्मानं बहु मन्यामहे वयम्।
प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः॥२०॥

या नः प्रीतिर्विरूपाक्ष ! त्वदनुध्यानसंभवा।
सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम्॥२१॥

साक्षाद्दृष्टोसि न पुनर्विद्मस्त्वां वयमञ्जसा।
प्रसीद कथयात्मानं, न धियां पथि वर्तसे॥२२॥

किं येन सृजसि व्यक्तमुत येन बिभर्षि तत्।
अथ विश्वस्य संहर्ता भागाः कतम एष ते॥२३॥

अथवा सुमहत्येषा प्रार्थना देव ! तिष्ठतु।
चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम्॥२४॥

अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः।
उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः॥२५॥

विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः।
ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः॥२६॥

सोऽहं तृष्णातुरैर्वृर्ष्टिं, विद्युत्वानिव चातकैः।
अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः॥२७॥

अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने।
उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम्॥२८॥

तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः।
विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः॥२९॥

उन्नतेन स्थितिमता धुरमुद्वहता भुवः।
तेन योजितसंबन्धं वित्त मामप्यवञ्चितम्॥३०॥

एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यते।
भबत्प्रणीतमाचारमामनन्ति हि साधवः॥३१॥

आर्याप्यरुन्धती तत्र व्यापारं कर्तुमर्हति।
प्रायेणैवंविधे कार्ये पुरंध्रीणां प्रगल्भता॥३२॥

तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम्।
महाकोशीप्रपातेऽस्मिन्संगमः पुनरेव नः॥३३॥

तस्मिन्संयमिनामाद्ये जाते परिणयोन्मुखे।
जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः॥३४॥

ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम्।
भगवानपि संप्राप्तः प्रथमोद्दिष्टमास्पदम्॥३५॥

ते चाकाशमसिश्याममुत्पत्य परमर्षयः।
आसेदुरोषधिप्रस्थं मनसा समरंहसः॥३६॥

अलकामतिवाह्यैव वसतिं वसुसंपदाम्।
स्वर्गाभिष्यन्दवमनं कृत्वेवोप निवेशितम्॥३७॥

गङ्गास्रोतःपरिक्षिप्तं वप्रान्तर्ज्वलितौषदि।
बृहन्मणिशिलासालं गुप्तावपि मनोहरम्॥३८॥

जितसिंहभया नागा यत्राश्वा बिलयोनयः।
यक्षाः किपुरुषाः पौरा योषितो वनदेवताः॥३९॥

शिखरासक्तमेघानां व्यज्यन्ते यत्र वेश्मनाम्।
अनुगर्जितसंदिग्धाः करणैर्मुरजस्वनाः॥४०॥

यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः।
गृहयन्त्रपताकाश्रीरपौरादरनर्मिता॥४१॥

यत्र स्फटिकहर्म्येषु नक्तमापानभूमिषु।
ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम्॥४२॥

यत्रौपधिप्रकाशेन नक्तं दर्शितसंचराः।
अनभिज्ञास्तमिस्त्राणां दुर्दिनेष्वभिसारिकाः॥४३॥

यौवनान्तं वयो यस्मिन्नान्तकः कुसुमायुधात्।
रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः॥४४॥

भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः।
यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः॥४५॥

संतानकतरुच्छायासुप्तविद्याधराध्वगम्।
यस्य चोपवनं बाह्यं गन्धवद् गन्धमादनम्॥४६॥

अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम्।
स्वर्गाभिसंधिसुकृतं वञ्चनामिव मेनिरे॥४७॥

ते सद्मनि गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः।
अवतेरुर्जटाभारैर्लिखितानलनिश्चलैः॥४८॥

गगनादवतीर्णा सा यथावृद्धपुरःसरा।
तोयान्तर्भास्करालीव रेजे मुनिपरम्परा॥४९॥

तानर्घ्यानर्घ्यमादाय दूरात्प्रत्युद्ययौ गिरिः।
नमयन्सारगुरुभिः पादन्यासैर्वसुंधराम्॥५०॥

धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः।
प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति॥५१॥

विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः।
स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः॥५२॥

तत्र वेत्रासनासीनान्कृतासनपरिग्रहः।
इत्युवाचेश्वरान्वाचं प्राञ्जलिर्भूधरेश्वरः॥५३॥

अपमेघोदयं वर्षमदृष्टकुसुमं फलम्।
अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे॥५४॥

मूढं बुद्धमिवात्मानं हैमीभूतमिवायसम्।
भूमेर्दिवमिवारुढं मन्ये भवदनुग्रहात्॥५५॥

अद्यप्रभृति भूतानामधिगम्योऽस्मि शुद्धये।
यदध्यासितमर्हद्भिस्तद्धि तीर्थ प्रचक्षते॥५६॥

अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः !।
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः॥५७॥

जंगमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम्।
विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः॥५८॥

भवत्संभावनोत्थाय परितोषाय मूर्च्छते।
अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे॥५९॥

न केवलं दरीसंस्थं भास्वतां दर्शनेन वः।
अन्तर्गतमपास्तं मे रजसोऽपि परं तमः॥६०॥

कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते।
मन्ये मत्पावनायैव प्रस्थानं भवतामिह॥६१॥

तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ।
विनियोगप्रसादा हि किंकराः प्रभविष्णुषु॥६२॥

एते वयममी दाराः, कन्येयं कुलजीवितम्।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु॥६३॥

इत्यूचिवांस्तमेवार्थं गुहामुखविसार्पिणा।
द्विरिव प्रतिशब्देन व्याजहार हिमालयः॥६४॥

अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु।
ऋषयो नोदयामासुः प्रत्युवाच स भूधरम्॥६५॥

उपपन्नमिदं सर्वमतः परमपि त्वयि।
मनसः शिखराणां च सदृशी ते समुन्नतिः॥६६॥

स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथाहि ते।
चराचराणां भूतानां कुक्षिराधारतां गतः॥६७॥

गामधास्यत्कथं नागो मृणालमृदुभिः फणैः।
आरसातलमूलात्त्वमवालम्बिष्यथा न चेत्॥६८॥

अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः।
पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते॥६९॥

यथैव श्लाध्यते गङ्गा पादेन परमेष्ठिनः।
प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया॥७०॥

तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः।
त्रिविक्रमोद्यतस्यासीत्स तु स्वाभाविकस्तव॥७१॥

यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया।
उच्चैर्हिरण्मयं श्रृङ्गं सुमेरोर्वितथीकृतम्॥७२॥

काठिन्यं स्थावरे काये भवता सर्वमर्पितम्।
इदं तु ते भक्तिनम्रं सतामाराधनं वपुः॥७३॥

तदागमनकार्यं नः श्रृणु कार्यं तवैव तत्।
श्रेयसामुपदेशात्तु वयमत्रांशभागिनः॥७४॥

अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम्।
शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः॥७५॥

कलितान्योन्यसामर्थ्यैः पृथिव्यादिभिरात्मभिः।
येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि॥७६॥

योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम्।
अनावृत्तभयं यस्य पदमाहुर्मनीषिणः॥७७॥

स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणाम्।
वृणुते वरदः शंभुरस्मत्संक्रामितैः पदैः॥७८॥

तमर्थमिव भारत्या सुतया योक्तुमर्हसि।
अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता॥७९॥

यावन्त्येतानि भूतानि स्थावराणि चराणि च।
मातरं कल्पयन्त्वेनामीशो हि जगतः पिता॥८०॥

प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम्।
चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः॥८१॥

उमा वधूर्भवान्दाता, याचितार इमे वयम्।
वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ६.८२॥

अस्तोतुः स्तूयमानस्य, वन्द्यस्यानन्यवन्दिनः।
सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः॥८३॥

एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी।
लीलाकमलपत्राणि गणयामास पार्वती॥८४॥

शैलः संपूर्णकामोऽपि मेनामुखमुदैक्षत।
प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः॥८५॥

मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम्।
भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः॥८६॥

इदमत्रोत्तरं न्याय्यमिति बुद्ध्या बिमृश्य सः।
आददे वचसामन्ते मङ्गलालंकृतां सुताम्॥८७॥

एहि विश्वात्मने वत्से ! भिक्षासि परिकल्पिता।
अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया॥८८॥

एतावदुक्त्वा तनयामृषीनाह महीधरः।
इयं नमति वः सर्वास्त्रिलोचनवधूरिति॥८९॥

ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः।
आशीर्भिरेधयामासुः पुरःपाकाभिरम्बिकाम्॥९०॥

तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम्।
अङ्कमारोपयामास लज्जमानामरुन्धती॥९१॥

तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम्।
वरस्यानन्यपूर्वस्य विशोकामकरोद् गुणैः॥९२॥

वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना।
ते त्र्यहादूर्ध्वमाख्याय चेरुश्चीरपरिग्रहाः॥९३॥

ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम्।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः॥९४॥

पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः॥९५॥

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया
संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ

कुमारसंभवे महाकाव्ये उमाप्रदानो नाम षष्ठः सर्गः।

No posts

Comments

No posts

No posts

No posts

No posts