कुमारसम्भवम् / सप्तदशः सर्गः's image
11 min read

कुमारसम्भवम् / सप्तदशः सर्गः

KalidasKalidas
0 Bookmarks 60 Reads0 Likes

कुमारसम्भवम् / सप्तदशः सर्गः /
दृष्ट्वाभ्युपेतमथ दैत्यपतिं पुरस्ता-
त्सङ्ग्रामकेलिकुतुकेन घनप्रमोदम्।
योद्धुं मदेन मिमिलुः ककुभामधीशा
बाणान्धकारितदिगम्बरगर्भमेत्य॥१॥

देवद्विषां परिवृढो विकटं विहस्य
बाणावलीभिरमरान्विकटान्ववर्ष।
शैलानिव प्रवरवारिधरलो गरिष्ठा-
नद्भिः पराभिरथ गाढमनारताभिः॥२॥

जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ता
बाणाः शिताः दनुजनायकबाणसङ्घान्।
अह्नाय तार्क्ष्यनिवहा इव नागपूगा-
न्सद्यो विचिच्छिदुरलं कणशो रणान्ते॥३॥

तान्प्रज्वलत्फलमुखैर्विषमैः सुरारि-
नामाङ्कितैः पिहितदिग्गगनान्तरालैः।
आच्छादितस्तृणचयानिव हव्यवाह-
श्चिच्छेद सोऽपि सुरसैन्यशराञ्शरौघैः॥४॥

दैत्येश्वरो ज्वलितरोषविशेषभीमः
सद्यो मुमोच युधि यान्विशिखान्सहेलः।
ते प्रापुरुद्भटभुजङ्गमभीमभावं
गाढं बबन्धुरपि तांस्त्रिदशेन्द्रमुख्यान्॥५॥

ते नागपाशविशिखैरसुरेण बद्धाः
श्वासानिलाकुलमुखा विमुखा रणस्य।
दिङ्नायका बलरिपुप्रमुखाः स्मरारि-
सूनोः समीपमगमन्विपदन्तहेतोः॥६॥

दृष्टिप्रपातवशतोऽपि पुरारिसूनो-
स्ते नागपाशघनबन्धविपत्तिदुःखात्।
इन्द्रादयो मुमुचिरे स्वयमस्य देवाः
सेवां व्यधुर्निकटमेत्य महाजिगीषोः॥७॥

उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रु-
रह्नाय सारथिमवोचत चण्डबाहुः।
बद्धा मया सुरपतिप्रमुखाः प्रसह्य
बालस्य धूर्जटिसुतस्य निरीक्षणेन॥८॥

मुक्ता बभूवुरधुना तदिमान्विहाय
कर्तास्म्यमुं समरभूमिपशूपहारम्।
तत्स्यन्दनं सपदि वाहय शंभुसूनुं
द्रष्टास्मि दर्पितभुजाबलमाहवाय॥९॥

तत्स्यन्दनः सपदि सारथिसंप्रणुन्नः
प्रक्षुब्धवारिधरधीरगभीरघोषः।
चण्डश्चचाल दलिताखिलशत्रुसैन्य-
मांसास्थिशोणितविपङ्कविलुप्तचक्रः॥१०॥

दृष्ट्वा रथं प्रलयवातचलद्गिरीन्द्र-
कल्पं दलद्वलविरावविशेषरौद्रम्।
अभ्यागतं सुररिपोः सुरराजसैन्यं
क्षोभं जगाम परमं भयवेपमानम्॥११॥

प्रक्षुभ्यमाणमवलोक्य दिगीशसैन्यं
शंभोः सुतं कलहकेलिकुतूहलोत्कम्।
उद्दामदोःकलितकार्मुकदण्डचण्डः
प्रोवाच वाचमुपगम्य स कार्त्तिकेयम्॥१२॥

रे शंभुतापसशिशो ! बत मुञ्च मुञ्च
दोर्दर्पमत्र विरम त्रिदिवेन्द्रकार्यात्।
शस्त्रैः किमत्र भवतोऽनुचितैरतीव
बालत्वकोमलभुजातुलभारभूतैः॥१३॥

एवं त्वमेव तनयोऽसि गिरीशगौर्योः
किं यासि कालविषयं विषमैः शरैर्मे।
सङ्ग्रामतोऽपसर जीव पितुर्जनन्या
स्तूर्णं प्रविश्य वरमङ्कतलं विधेहि॥१४॥

सम्यक्स्वयं किल विमृश्य गिरीशपुत्र !
जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु।
एष स्वयं पयसि मज्जति दुर्विगाह्ये
पाषाणनौरिव निमञ्जयते पुरा त्वाम्॥१५॥

इत्थं निशम्य वचनं युधि तारकश्च
कम्प्राधरो विकचकोकनदारुणाक्षः।
क्षोभात्त्रिलोचनसुतो धनुरीक्षमाणः
प्रोवाच वाचमुचितां परिमृश्च शक्तिम्॥१६॥

दैत्याधिराज भवता यदवादि गर्वा-
त्तत्सर्वमप्युचितमेव तवैव किं तु।
द्रष्टास्मि ते प्रवरबाहुबलं वरिष्ठं
शस्त्रं गृहाण कुरु कार्मुकमाततज्यम्॥१७॥

इत्युक्तवन्तमवदत्त्रिपुरारिपुत्रं
दैत्यः क्रुधौष्ठमधरं किल निर्विभिद्य।
युद्धार्थमुद्भटभुजाबलदर्पितोऽसि
बाणान्सहस्व मम सादितशत्रुपृष्ठान्॥१८॥

दुष्प्रेक्षणीयमरिभिर्धनुराततज्यं
सद्यो विधाय विषमान्विशिखान्न्यधत्त।
स क्रोधभीमभुजगेन्द्रनिभं स्वचापं
चण्डं प्रपञ्चयति जैत्रशरैः कुमारे॥१९॥

कर्णान्तमेत्य दितिजेन विकृष्यमाणं
कोदण्डमेतदभित सुषुवे शरौघान्।
व्योमाङ्गणे लिपिकरान्कि रणप्ररोहैः
सान्द्रैरशेषककुभां पलितं करिष्णून्॥२०॥

बाणैः सुरारिधनुषः प्रसृतैरनन्तै-
र्निर्घोषभीषितभटो लसदंशुजालैः।
अन्धीकृताखिलसुरेश्वरसैन्य ईश-
सूनुः कुतोऽपि विषयं न जगाम दृष्टेः॥२१॥

देवेन मन्मथरिपोस्तनयेन गाढ-
माकर्णकृष्टमभितो धनुराततज्यम्।
बाणानसूत निशितान्युधि यान्सुजैत्रां-
स्तैः सायका बिभिदिरे सहसा सुरारेः॥२२॥

रेजे सुरारिशरदुर्दिनके निरस्ते
सद्यस्तरां निखिलखेचरखेदहेतौ।
देवः प्रभाप्रभुरिव स्मरशत्रुसूनुः
प्रद्योतनः सुघनदुर्धरधामधामा॥२३॥

तत्राथ दु सहतरं समरे तरस्वी
धामाधिकं दधति धीरतरं कुमारे।
मायामयं समरमाशु महासुरेन्द्रो
मायाप्रचारचतुरो रचयांचकार॥२४॥

अह्नाय कोपकलुषो विकटं विहस्य
व्यर्थां समर्थ्य वरशस्त्रयुधं कुमारे।
जिष्णुर्जगद्विजयदुर्ललितः सहेलं
वायव्यमस्त्रमसुरो धनुषि न्यधत्त॥२५॥

संधानमात्रमपि यस्य युगान्तकाल-
भूतभ्रमं पुरुषभीषणधोरघोषः।
उद्धूतधूलिपटलैः पिहिताम्बराशः
प्रच्छन्नचण्डकिरणो व्यसरत्समीरः॥२६॥

कुन्दोज्जवलानि सकलातपवारणानि
धूतानि तेन मरुता सुरसैनिकानाम्।
उड्डीयमानकलहंसकुलोपमानि
मेघाभधूलिमलिने नभसि प्रसस्त्रुः॥२७॥

विध्वस्य तेन सुरसैन्यमहापताका
नीता नभस्थलमलं नवमल्लिकाभाः।
स्वर्गापगाजलमहौघसहस्त्रलीलां
व्यातेनिरे दिवि सिताम्बरकैतवेन॥२८॥

धूतानि तेन सुरसैन्यमहागजानां
सद्यःशतानि विधुराणि दलत्कुथानि।
पेतुः क्षितौ कुपितवासववज्रलून-
पक्षस्य भूधरकुलस्य तुलां वहन्ति॥२९॥

तास्ताः खरेण मरुता रथराजयोऽपि
दोधूयमाननिपतिष्णुतुरंगमाश्च।
विस्त्रस्तसारथिकुलप्रवराः समन्ताद्
व्यावृत्य पेतुरवनौ सुरवाहिनीनाम्॥३०॥

हित्वायुधानि सुरसैन्यतुरंगवाहा
वातेन तेन विधुराः सुरसैन्यमध्ये।
शस्त्राभिघातमनवाप्य निपेतुरुर्व्यां
स्वीयेषु वाहनवरेषु पतत्सु सत्सु॥३१॥

तेनाहतास्त्रिदशसैन्यपदातयोऽपि
स्रस्तायुधाः सुविधुराः परुषं रसन्तः।
वात्साविवर्तदलवद्भ्रममेत्य दूरं
निष्पेतुरम्बरतलाद्वसुधातलेऽस्मिन्॥३२॥

इत्थं विलोक्य सुरसैन्यमथो अशेषं
दैत्येश्वरेण विधुरीकृतमस्त्रयोगात्।
स्वर्लोकनाथकमलाकुशलैकहेतु-
र्दिव्यं प्रभावमतनोदतनुः स देवः॥३३॥

तेनोज्झितं सकलमेव सुरेन्द्रसैन्यं
स्वास्थ्यं प्रपद्य पुनरेव युधि प्रवृत्तम्।
दृष्ट्वासृजद्दहनदैवतमस्त्रमिद्ध-
मुद्दीप्तकोपदहनः सहसा सुरारिः॥३४॥

वर्षातिकालजलदद्युतयो नभोऽन्ते
गाढान्धकारितदिशो घनधूमसंघाः।
सद्यः प्रसस्रुरसितोत्पलदामभासो
दृग्गोचरत्वमखिलं न हि सन्नयन्तः॥३५॥

दिक्चक्रवालगिलनैर्मलिनैस्तमोभि-
र्लिप्तं नभःस्थलमलं घनवृन्दसान्द्रैः।
धूमैर्विलोक्य मुदिताः खलु राजहंसा
गन्तुं सरः सपदि मानसमीषुरुच्चैः॥३६॥

जज्वाल वह्निरतुलः सुरसैनिकेषु
कल्पान्तकालदहनप्रतिमः समन्तात्।
आशामुखानि विमलान्यखिलानि कीला-
जालैरलं कपिलयन्सकलं नभोऽपि॥३७॥

उज्जागरस्य दहनस्य निरर्गलस्य
ज्वालावलीभिरतुलाभिरनारताभिः।
कीर्णं पयोदनिवहैरिव धूमसंघै-
र्व्योमाभ्यलक्ष्यत कुलैस्तडितामिवोच्चैः॥३८॥

गाढाद्भयाद्वियति विद्रुतखेचरेण
दीप्तेन तेन दहनेन सुदुःसहेन।
दन्दह्यमानमखिलं सुरराजसैन्य-
मत्याकुलं शिवसुतस्य समीपमाप॥३९॥

इत्यग्निना घनतरेण ततोऽभिभूतं
तद्देवसैन्यमखिलं विकलं विलोक्य।
सस्मेरवक्त्रकमलोऽन्धकशत्रुसूनु-
र्बाणासनेन समधत्त स वारुणास्त्रम्॥४०॥

घोरान्धकारनिकरप्रतिमो युगान्त-
कालानलप्रबलधूमनिभो नभोन्ते।
गर्जारवैर्विघटयन्नवनीधराणां
श्रृङ्गाणि मेघनिवहो घनमुज्जगाम॥४१॥

विद्युल्लता वियति वारिदवृन्दमध्ये
गम्भीरभीषणरवैः कपिशीकृताशा।
घोरा युगान्तचलितस्य भयंकराऽथ
कालस्य लोलरसनेव चमच्चकार॥४२॥

कादम्बिनी विरुरुचे विषकण्ठिकाभि-
रुत्तालकालरजनीजलदावलीभिः।
व्योम्न्युच्चकैरचिररुक्परिदीपिताशाऽ-
दृष्टिच्छदा विषमघोषविभीषणा च॥४३॥

व्योम्नस्तलं पिदधतां ककुभां मुखानि
गर्जारवैरविरतैस्तुदतां मनांसि।
अम्भोभृतामतितरामनणीयसीभि-
र्धारावलीभिरभितो ववृषे समूहैः॥४४॥

घोरान्धकारपटलैः पिहिताम्बराणां
गम्भीरगर्जनरवैर्व्यथितासुराणाम्।
वृष्ट्याऽनया जलमुचां वरुणास्त्रजानां
विश्वोदरंभरिरपि प्रशशाम वह्निः॥४५॥

दैत्योऽपि रोषकलुषो निशितैः क्षुरप्रै-
राकर्णकृष्टधनुरुत्पतितैः स भीमैः।
तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यं
गाढं जघान मकरध्वजशत्रुसूनुम्॥४६॥

देवोऽपि दैत्यविशिखप्रकरं सचापं
बाणैश्चकर्त कणशो रणकेलिकारी।
योगीव योगविधिशुष्कमना यमाद्यैः
सांसारिकं विषयसङ्घममोघवीर्यम्॥४७॥

भ्रूभह्गभीषणमुखोऽसुरचक्रवर्ती
संदीप्तकोपदहनोऽथ रथं विहाय
क्रीडत्करालकरवालकरोऽसुरेन्द्र-
स्तं प्रत्यधावदभितस्त्रिपुरारि सूनुम्॥४८॥

अभ्यापतन्तमसुराधिपमीशपुत्रो
दुर्वारबाहुविभवं सुरसैनिकैस्तम्।
दृष्ट्वा युगान्तदहनप्रतिमां मुमोच
शक्तिं प्रमोदविकसद्वदनारविन्दः॥४९॥

उद्द्योतिताम्बरदिगन्तरमंशुजालैः
शक्तिः पपात हृदि तस्य महासुरस्य।
हर्षाश्रुभिः सह समस्तदिगीश्वराणां
शोकोष्णबाष्पसलिलैः सह दानवानाम्॥५०॥

शक्त्या हृतासुमसुरेश्वरमापतन्तं
कल्पान्तवातहतभिन्नमिवाद्रिश्रृङ्गम्।
दृष्ट्वा प्ररुढपुलकाञ्चितचारुदेहा
देवाः प्रमोदमगमंस्त्रिदशेन्द्रमुख्याः॥५१॥

यत्रापतत्स दनुजाधिपतिः परासुः
संवर्तकालनिपतच्छिखरीन्द्रतुल्यः।
तत्रादधात्फणिपतिर्धरणीं फणाभि-
स्तद्भूरिभारविधुराभिरधो व्रजन्तीम्॥५२॥

स्वर्गापगासलिलसीकरिणी समन्तात्
सौरभ्यलुब्धमधुपावलिसेव्यमाना।
कल्पद्रुमप्रसववृष्टिरभून्नभस्तः
शंभोः सुतस्य शिरसि त्रिदशारिशत्रोः॥५३॥

पुलकभरविभिन्नवारबाणा
भुजविभवं बहु तारकस्य शत्रोः।
सकलसुरगणा महेन्द्रमुख्याः
प्रमदमुखच्छविसंपदोऽभ्यनन्दन्॥५४॥

इति विषमशरारेः सूनुना जिष्णुनाजौ
त्रिभुवनवरशल्ये प्रोद्धृते दानवेन्द्रे।
बलरिपुरथ नाकस्याधिपत्यं प्रपद्य
व्यजयत सुरचूडारत्नघृष्टाग्रपादः॥५५॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
तारकासुरवधो नाम सप्तदशः सर्गः॥

 

No posts

Comments

No posts

No posts

No posts

No posts