कुमारसम्भवम् / एकादशः सर्गः's image
8 min read

कुमारसम्भवम् / एकादशः सर्गः

KalidasKalidas
0 Bookmarks 159 Reads0 Likes

कुमारसम्भवम् / एकादशः सर्गः
अभ्यर्थ्यमाना विबुधैः समग्रैः प्रह्वैः सुरेन्द्रप्रमुखैरुपेत्य।
तं पाययामास सुधातिपूर्णं सुरापगा स्वं स्तनमाशु मूर्ता॥१॥

पिबन् स तस्याः स्तनयोः सुधौघं क्षणं क्षणं साधु समेधमानः।
प्रापाकृतिं कामपि षड्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः॥२॥

भागीरथीपावककृत्तिकानामानन्दबाष्पाकुललोचनानाम्।
तं नन्दनं दिव्यमुपात्तुमासीत्परस्परं प्रौढतरो विवादः॥३॥

अत्रान्तरे पर्वतराजपुत्र्या समं शिवः स्वैरविहारहेतोः।
नभो विमानेन विगाहमानो मनोतिवेगेन जगाम तत्र॥४॥

निसर्गवात्सल्यवशाद्विवृद्धचेतःप्रमोदौ गलदश्रुनेत्रौ।
अपश्यतां तं गिरिजागिरीशौ षडाननं षड्दिनजातमात्रम्॥५॥

अथाह देवी शशिखण्डमौलिं कोऽयं शिशुर्दिव्यवपुः पुरस्तात् ?
कस्याथवा धन्यतमस्य पुंसो मातास्य का भाग्यवतीषु धुर्या॥६॥

स्वर्गापगासावनलोऽयमेताः षट् कृत्तिकाः किं कलहायमानाः।
पुत्रो ममायं न तवायमित्थं मिथ्येति वैलक्ष्यमुदाहरन्ति॥७॥

एतेषु कस्येदमपत्यमीशाखिलत्रिलोकीतिलकायमानम्।
अन्यस्य कस्याप्यथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु॥८॥

श्रुत्वेति वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः।
सान्द्रप्रमोदोदयसैख्यहेतुभूतं वचोऽवोचत चन्द्रचूडः॥९॥

जगत्त्रयीनन्दन एष वीरः प्रवीरमातुस्तव नन्दनोऽस्ति।
कल्याणि ! कल्याणकरः सुराणां त्वत्तोऽपरस्याः कथमेष सर्गः॥१०॥

देवि त्वमेवास्य निदानमास्से सर्गे जगन्मङ्गलगानहेतोः।
सत्यं त्वमेवेति विचारयस्व रत्नाकरे युज्यत एव रत्नम्॥११॥

अतः श्रृणुष्वावहितेन वृत्तं बीजं यदग्नौ निहितं मया तत्।
संक्रान्तमन्त स्त्रिदशापगायां ततोऽवगाहे सति कृत्तिकासु॥१२॥

गर्भत्वमाप्तं तदमोघमेतत्ताभिः शरस्तम्बमधि न्यधायि।
बभूव तत्रायमभूतपूर्वो महोत्सवोऽशेषचराचरस्य॥१३॥

अशेषविश्वप्रियदर्शनेन धुर्या त्वमेतेन सुपुत्रिणीनाम्।
अलं विलम्ब्याचलराजपुत्रि ! स्वपुत्रमुत्सङ्गतले निधेहि॥१४॥

अथेति वादिन्यमृतांशुमौलौ शैलेन्द्रपुत्री रभसेन सद्यः।
सान्द्रप्रमोदेन सुपीनगात्री धात्री समस्तस्य चराचरस्य॥१५॥

किरीटबद्धाञ्जलिभिर्नभःस्थैर्नमस्कृता सत्वरनाकिलोकैः।
विमानतोऽवातरदात्मजं तं ग्रहीतुमुत्कण्ठितमानसाभूत्॥१६॥

स्वर्गापगापावककृत्तिकादीन् कृताञ्जलीनानमतोऽपि भूयः।
हित्वोत्सुका तं सुतमाससाद पुत्रोत्सवे माद्यति का न हर्षात्॥१७॥

प्रमोदबाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि।
परिस्पृशन्ती करकुङ्मलेन सुखान्तरं प्राप किमप्यपूर्वम्॥१८॥

सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्बाष्पतरङ्गितायाः।
विवृद्धवात्सल्यरसोत्तराया देव्या दृशोर्गोचरतां जगाम॥१९॥

तमीक्षमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनिमेषमैच्छत्।
सा नन्दनालोकनमङ्गलेषु क्षणं क्षणं तृप्यति कस्य चेतः ?॥२०॥

विनम्रदेवासुरपृष्ठगाभ्यामादाय तं पाणिसरोरुहाभ्याम्।
नवोदयं पार्वणचन्द्रचारुं गौरी स्वमुत्सङ्गतलं निनाय॥२१॥

स्वमङ्कमारोप्य सुधानिधानमिवात्मनो नन्दनमिन्दुवक्त्रा।
तमेकमेषां जगदेकवीरं बभूव पूज्या धुरि पुत्रिणीनाम्॥२२॥

निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा।
तमेकपुत्रं जगदेकमाताभ्युत्सङ्गिनं प्रस्त्रविणी बभूव॥२३॥

अशेषलोकत्रयमातुरस्याः षाण्मातुरः स्तन्यसुधामधासीत्।
सुरस्रवन्त्याः किल कृत्तिकाभिर्मुहुर्मुहुः सस्पृहमीक्ष्यमाणः॥२४॥

सुखाश्रुपूर्णेन मृगाङ्कमौलेः कलत्रमेकेन मुखाम्बुजेन।
तस्यैकनालो द्गतपञ्चपद्मलक्ष्मीं क्रमात्षड्वदनीं चुचुम्ब॥२५॥

हैमी फलं हेमगिरेर्लतेव विकस्वरं नाकनदीव पद्मम्।
पूर्वेव दिङ्नूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना॥२६॥

प्रीतात्मना सा प्रयतेन दत्तहस्तावलम्बा शशिशेखरेण।
कुमारमुत्सङ्गतले दघाना विमानमभ्रंलिहमारुरोह॥२७॥

महेश्वरोऽपि प्रमदप्ररुढरोमोद्गमो भूधरनन्दनायाः।
अङ्कादुपादत्त तदङ्कतः सा तस्यास्तु सोऽप्यात्मजवत्सलत्वात्॥२८॥

दधानया नेत्रसुधैकसत्रं पुत्रं पवित्रं सुतया तयाद्रेः।
संश्लिष्यमाणः शशिखण्डधारी विमानवेगेन गृहाज्जगाम॥२९॥

अधिष्ठितः स्फाटिकशैलश्रृङ्गे तुङ्गे निजं धाम निकामरम्यम्।
महोत्सवाय प्रमथप्रमुख्यान् पृथून्गणाञ्शंभुरथादिदेश॥३०॥

पृथुप्रमोदः प्रगुणो गणानां गणः समग्रो वृषवाहनस्य।
गिरीन्द्रपुत्र्यास्तनयस्य जन्मन्यथोत्सवं संववृते विधातुम्॥३१॥

स्फुरन्मरीचिच्छुरिताम्बराणि संतानशाखिप्रसवाञ्चितानि।
उच्चिक्षिपुः काञ्चनतोरणानि गणा वराणि स्फटिकालयेषु॥३२॥

दिक्षु प्रसर्पस्तदधीश्वराणामथामराणामिव मध्यलोके।
महोत्सवं शंसितुमाहतोऽन्यैर्दध्वान धीरः पटहः पटीयान्॥३३॥

महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम्।
संभावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि॥३४॥

सुमङ्गलोपायन पात्रहस्तास्तं मातरो मातृवदभ्युपेताः।
विधाय दूर्वाक्षतकानि मूर्ध्नि निन्युः स्वमङ्कं गिरिजातनूजम्॥३५॥

ध्वनत्सु तूर्येषु सुमन्द्रमङ्क्यालिङ्ग्योर्ध्वकेष्वप्सरसो रसेन।
सुसन्धिबन्धं ननृतुः सुवृत्तगीतानुगं भावरसानुविद्धम्॥३६॥

वाता ववुः सौख्यकराः प्रसेदुराशा विधूमो हुतभुग दिदीपे।
जलान्यभूवन्विमलानि तत्रोत्सवेऽन्तरिक्षे प्रससाद सद्यः॥३७॥

गम्भीरशङ्खध्वनिमिश्रमुच्चैर्गृहोद्भवा दुन्दुभयः प्रणेदुः।
दिवौकसां व्योम्नि विमानसङ्घा विमुच्य पुष्पप्रचयान्प्रसस्रुः॥३८॥

इत्थं महेशाद्रिसुतासुतस्य जन्मोत्सवे संमदयांचकार।
चराचरं विश्वमशेषमेतत्परं चकम्पे किल तारकश्रीः॥३९॥

ततः कुमारः समुदां निदानैः स बाललीलाचरितैर्विचित्रैः।
गिरीशगौर्योहृदयं जहार मुदे न हृद्या किमु बालकेलि॥४०॥

महेश्वरः शैलसुता च हर्षात्सतर्षमेकेन मुखेन गाढम्।
अजातदन्तानि मुखानि सूनोर्मनोहराणि क्रमतश्चुचुम्ब॥४१॥

क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः क्वचिदप्रकम्पैः।
बालः स लीलाचलनप्रयोगैस्तयोमुदं वर्धयति स्म पित्रोः॥४२॥

अहेतुहासच्छुरिताननेन्दुर्गृहाङ्गणक्रीडनधूलिधूम्रः।
मुहुर्वदन्किचिदलक्षितार्थं मुदं तयोरङ्कगतस्ततान॥४३॥

गृह्णन्विषाणे हरवाहनस्य स्पृशन्नुमा केसरिणं सलीलम्।
स भृङ्गिणः सूक्ष्मतरं शिखग्रं कर्षन्बभूव प्रमदाय पित्रोः॥४४॥

एको नव द्वौ दशा पञ्च सप्तेत्यजीगणन्नात्ममुखं प्रसार्य।
महेशकण्ठोरगदन्तपङ्क्तिं तदङ्कगः शैशवमौग्ध्यमैशिः॥४५॥

कपर्दिकण्ठान्तकपालदाम्नोऽङ्गुलिं प्रवेश्याननकोटरेषु।
दन्तानुपात्तुं रभसी बभूव मुक्ताफलभ्रान्तिकरः कुमारः॥४६॥

शंभोः शिरोऽन्तःसरितस्तरङ्गान्विगाह्य गाढं शिशिरान्नसेन।
स जातजाड्यं निजपाणिपद्ममतापयद्भालविलोचनाग्नौ॥४७॥

किंचित्कलं भङ्गुरकन्धरस्य नमज्जटाजूटधरस्य शंभोः।
प्रलम्बमानं किल कौतुकेन चिरं चुचुम्बे मुकुटेन्दुखण्डम्॥४८॥

इत्थं शिशोः शैशवकेलिवृत्तैर्मनोभिरामैर्गिरिजागिरीशौ।
मनोविनोदैकरसप्रसक्तौ दिवानिशं नाविदतां कदाचित्॥४९॥

इति बहुविधं बालक्रीडाविचित्रविचेष्टितं
ललितललितंसान्द्रानन्दं मनोहरमाचरन्।
अलभत परां बुद्धिं षष्ठे दिने नवयौवनं
स किल सकलं शास्त्रं शस्त्रं विवेद विभुर्यया॥५०॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये

कुमारोत्पत्तिर्नामैकादशः सर्गः॥

No posts

Comments

No posts

No posts

No posts

No posts