कुमारसम्भवम् / दशमः सर्गः's image
8 min read

कुमारसम्भवम् / दशमः सर्गः

KalidasKalidas
0 Bookmarks 208 Reads0 Likes

कुमारसम्भवम् / दशमः सर्गः
आससाद सुनासीरं सदसि त्रिदशैः सह।
एष त्रैयम्बकं तीव्रं वहन्वह्निमंहन्महः॥१॥

सहस्रेण दृशामीशो कुत्सिताङ्गं च सादरम्।
दुर्दर्शनं ददर्शाग्निं धूम्रधूमितमण्डलम्॥२॥

दृष्ट्वा तथाविधं वह्निमिन्द्रः क्षुब्धेन चेतसा।
व्यचिन्तयच्चिरं किंचित्कन्दर्पद्वेषिरोषजम्॥३॥

स विलक्ष्यमुखैर्देवैर्वीक्ष्यमाणः क्षणं क्षणम्।
उपाविशत्सुरेन्द्रेणादिष्टं सादरमासनम्॥४॥

हव्यवाह ! त्वयासादि दुर्दशेयं दशा कुतः।
इति पृष्टः सुरेन्द्रेण स निःश्वस्य वचोऽवदत्॥५॥

`अनतिक्रमणीयात्ते शासनात्सुरनायक !
पारावत वपुः प्राप्य वेपमानोऽतिसाध्वसात्॥६॥

अभिगौरि रतासक्तं जगामाहं महेश्वरम्।
कालस्येव स्मरारातेः स्वं रुपमहमासदम्॥७॥'
दृष्ट्वा छद्मविहङ्गं मां सुज्ञो विज्ञाय जम्भभित् !
ज्वलद्भालानले होतुं कोपनो माममन्यत॥८॥

वचोभिर्मधुरैः सार्थैर्वनम्रेण मया स्तुतः।
प्रीतिमानभवद्देवः `स्तोत्रं कस्य न तुष्टये'॥९॥

शरण्यः सकलत्राता मामत्रायत शंकरः।
क्रोधाग्नेर्ज्वलतो ग्रासात्र्त्रासतो दुर्निवारतः॥१०॥

परिहृत्य परीरम्भरभसं दुहितुर्गिरेः।
कामकेलिरसोत्सेकाद् व्रीडया विरराम सः॥११॥

रङ्गभङ्गच्युतं रेतस्तदामोघं सुदुर्वहम्।
त्रिजगद्दाहकं सद्यो मद्विग्रहमधि न्यधात्॥१२॥

दुर्विषह्येण तेनाहं तेजसा दहनात्मना।
निर्दग्धमात्मनो देहं दुर्वहं वोढुमक्षमः॥१३॥

रौद्रेण दह्यमानस्य महसातिमहीयसा।
मम प्राणपरित्राणप्रगुणो भव वासव !॥१४॥

इति श्रुत्वा वचो बह्नेः परितापोपशान्तये।
हेतुं विचिन्तयामास मनसा विबुधेश्वरः॥१५॥

तेजोदग्धानि गात्राणि पाणिनास्य परामृशन्।
किंचित्कृपीटयोनिं तं दिवस्पतिरभाषत॥१६॥

प्रीतः स्वाहास्वधाहन्तकारैः प्रीणयसे स्वयम्।
देवान्पितॄन्मनुष्यांस्त्वमेकस्तेषां मुखं यतः॥१७॥

त्वयि जुह्वति होतारो हवींषि ध्वस्तकल्मषाः।
भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम्॥१८॥

हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः।
तपस्विनस्तपःसिद्धिं यान्ति, त्वं तपसां प्रभुः॥१९॥

निधत्से हुतमर्काय, स पर्जन्योऽभिवर्षति।
ततोऽन्नानि, प्रजास्तेभ्यस्तेनासि जगतः पिता॥२०॥

अन्तश्चरोऽसि भूतानां, तानि त्वत्तो भवन्ति च।
ततो जीवितभूतस्त्वं जगतः प्राणदोऽसि च॥२१॥

जगतः सकलस्यास्य त्वमेकोऽस्युपकारकृत्।
कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते ?॥२२॥

अमीषां सुरसंघानां त्वमेकोऽर्थसमर्थने।
विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल॥२३॥

देवी भागीरथी पूर्व भक्त्यास्माभिः प्रतोषिता।
निमज्जतस्तवोदीर्णं तापं निर्वापयिष्यति॥२४॥

गङ्गां तद्गच्छ मा कार्षी विलम्बं हव्यवाहन।
कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता॥२५॥

शंभोरम्भोमयी मूर्तिः सैव देवी सुरापगा।
त्वत्तः स्मरद्विषो बीजं दुर्धरं धारयिष्यति॥२६॥

इत्युदीर्य सुनासीरो विरराम, स चानलः।
तद्विसृष्टस्तमापृच्छ्य प्रतस्थे स्वर्धुनीमभि॥२७॥

हिरण्यरेतसा तेन देवी स्वर्गतरङ्गिणी।
तीर्णाध्वना प्रपेदे सा निःशेषक्लेशनाशिनी॥२८॥

अथ त्रिभिस्तामेव विशिनष्टि-
स्वर्गारोहणनिःश्रेणिर्मोक्षमार्गाधिदेवता।
उदारदुरितोद्गारहारिणी दुर्गतारिणी॥२९॥

महेश्वरजटाजूटवासिनी, पापनाशिनी।
सरागान्वयनिर्वाणकारिणी, धर्मधारिणी॥३०॥

विष्णुपादोदकोद्भूता, ब्रह्मलोकादुपागता।
त्रिभिः स्त्रोतोभिरश्रान्तं पुनाना भुवनत्रयम्॥३१॥

जातवेदसमायान्तमूर्मिहस्तैः समुत्थितैः।
आजुहावार्थसिद्ध्यै तं सुप्रसादधरेव सा॥३२॥

संमिलद्भिर्मरालैः सा कलं कूजद्भिरुन्मदैः।
ददे श्रेयांसि दुःखानि निहन्मीति तमभ्यधात्॥३३॥

कल्लोलैरुद्गतैरर्वाचीनं तटमभिद्रुतैः।
प्रीतेव तमभीयाय स्वर्धुनी जातवेदसम्॥३४॥

अथाभ्युपेतस्तापार्तो निममज्जानलः किल।
विपदा परिभूताः किं व्यवस्यन्ति विलम्बितुम्॥३५॥

गङ्गावारिणि कल्याणकारिणि श्रमहारिणि।
स मग्नो निर्वृतिं प्राप पुण्यभारिणि तारिणि॥३६॥

तत्र माहेश्वरं धाम संचक्राम हविर्भुजः।
गङ्गायामुत्तरङ्गायामन्तस्तापविपद्धृति॥३७॥

कृशानुरेतसो रेतस्यादृते सरिता तया।
निश्चक्राम ततः सौख्यं हव्यवाहो वहन्बहु॥३८॥

सुधासारैरिवाम्भोभिरभिषिक्तो हुताशनः।
यथागतं जगामाथ परां निर्वृतिमादधत्॥३९॥

सा सुदुर्विषहं गङ्गा धाम कामजितो महत्।
आदधाना परीतापमवाप व्योमवाहिनी॥४०॥

बहिरार्ता युगान्ताग्नेस्तप्तानीव शिखाशतैः।
हित्वोष्णानि जलान्यस्या निर्जग्मुर्जलजन्तवः॥४१॥

तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि।
समुदञ्चन्ति चण्डानि दुर्धराणि बभार सा॥४२॥

जगच्चक्षुषि चण्डांशौ किंचिदभ्युदयोन्मुखे।
जग्मुः षट् कृत्तिका माघे मासि स्नातुं सुरापगाम्॥४३॥

शुभ्रैरभ्रंकषैरूर्मिशतैः स्वर्गनिवासिनाम्।
कथयन्तीमिवालोकावगाहा चमनादिकम्॥४४॥

सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैरलम्।
बहिः पुष्पोत्करैः कीर्णतीरां दूर्वाक्षतान्वितैः॥४५॥

ब्रह्मध्यानपरैर्योगपरैर्ब्रह्मासनस्थितैः।
योगनिद्रागतैर्योगपट्टबन्धैरुपाश्रिताम्॥४६॥

पादाङ्गुष्ठाग्रभूमिस्थैः सूर्यसंबद्धदृष्टिभिः।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम्॥४७॥

अथ दिव्यां नदीं देवीमभ्यनन्दन्विलोक्य ताः।
कं नाभिनन्दयत्येषा दृष्टा पीयूषवाहिनी॥४८॥

चन्द्रचूडामणिर्देवो यामुद्वहति मूर्धनि।
यस्या विलोकनं पुण्यं श्रद्दधूस्ता मुदा हृदि॥४९॥

दिव्यां विष्णुपदीं देवीं निर्वाणपददेशिनीम्।
निर्धूतकल्मषां मूर्ध्ना सुप्रह्वास्ता ववन्दिरे॥५०॥

सौभाग्यैः खलु सुप्रापां मोक्षप्रतिभुवं सतीम्।
भक्त्यात्र तुष्टुवुस्तां ताः श्रद्दधाना दिवोधुनीम्॥५१॥

मुक्तिस्त्रीसङ्गदूत्यज्ञैस्तत्र ता विमलैर्जलैः।
प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः॥५२॥

{१.दौत्यज्ञै.२.भाविमलैः.३.तापसान्विताः.}
स्नात्वा तत्र सुलभ्यायां भाग्यैः परिपचेलिमैः।
चरितार्थं स्वमात्मानं बहु ता मेनिरे मुदा॥५३॥

कृशानुरेतसो रेतस्तासामभिकलेवरम्।
अमोघं संचचाराथ सद्यो गङ्गावगाहनात्॥५४॥

रौद्रं सुदुर्धरं धाम दधाना दहनात्मकम्।
परितापमवापुस्ता मग्ना इव विषाम्बुधौ॥५५॥

अक्षमा दुर्वहं वोढुमम्बुनो बहिरातुराः।
अग्निं ज्वलन्तमन्तस्ता दधाना इव निर्ययुः॥५६॥

अमोघं शांभवं बीजं सद्यो नद्योज्झितं महत्।
तासामभ्युदरं दीप्तं स्थितं गर्भत्वमागमत्॥५७॥

सुज्ञा विज्ञाय ता गर्भभूतं तद्वोढुमक्षमाः।
विषादमदधुः सद्यो गाढं भर्तृभिया ह्रिया॥५८॥

ततः शरवणे सार्धं भयेन व्रीडया च ताः।
तद्गर्भजातमुत्सृज्य स्वान् गृहानभिनिर्ययुः॥५९॥

ताभिस्तत्रामृतकरकलाकोमलं भासमानं
तद्विक्षिप्तं क्षणमभिनभोगर्भमभ्युज्जिहानैः।
स्वैस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानै
र्वक्त्रैः षङ्भिः स्मरहरगुरुस्पर्धयेवाजनीव॥६०॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे

महाकाव्ये कुमारोत्पत्तिर्नाम दशमः सर्गः॥

No posts

Comments

No posts

No posts

No posts

No posts