कुमारसम्भवम् / चतुर्दशः सर्गः's image
9 min read

कुमारसम्भवम् / चतुर्दशः सर्गः

KalidasKalidas
0 Bookmarks 53 Reads0 Likes

कुमारसम्भवम् / चतुर्दशः सर्गः
रणोत्सुकेनान्धकशत्रुसूनुना समं प्रयुक्तैस्त्रिदशैर्जिगीषुणा।
महासुरं तारकसंज्ञकं द्विषं प्रसह्य हन्तुं समनह्यत द्रुतम्॥१॥

स दुर्निवारं मनसोऽतिवेगिनं जयश्रियः संनयनं सुदुःसहम्।
विजित्वरं नाम तदा महारथं धनुर्धरः शक्तिधरोऽध्यरोहयत्॥२॥

सुरालयश्रीविपदां निवारणं सुरारिसंपत्परितापकारणम्।
केनापि दध्रेऽस्य विरोधिदारणं सुचारु चामीकरघर्मवारणम्॥३॥

शरच्चरच्चन्द्रमरीचिपाण्डुरैः संवीज्यमानो वरचारुचामरैः।
पुरःसरैः किंनरसिद्धचारणै रणेच्छुरस्तूयत वाग्भिरुल्बणैः॥४॥

प्रयाणकालोचितचारुवेषभृद्वज्रं वहन्पर्वतपक्षदारणम्।
ऐरावतं स्फाटिकशैलसोदरं ततोऽधिरुह्य द्युपतिस्तमन्वगात्॥५॥

तमन्वगच्छद् गिरिश्रृङ्गसोदरं मदोद्धतं मेषमधिष्ठितः शिखी।
विरोधिविद्वेषरुषाधिकं ज्वलन्महो महीयस्तरमायुधं दधत्॥६॥

अथेन्द्रनीलाचलचण्डविग्रहं विषाणविध्वस्तमहापयोधरम्।
अधिष्ठितः कासरमुद्धरं मुदा वैरस्वतो दण्डधरस्तमन्वगात्॥७॥

मदोद्धतं प्रेतमथाधिरुढवांस्तमन्धकद्वेषितनूजमन्वगात्।
महासुरद्वेषविशेषभीषणः सुरोषणश्चण्डरणाय नैर्ऋतः॥८॥

नवोद्यदम्भोधरघोरदर्शने युद्धाय रुढो मकरे महत्तरे।
दुर्वारपाशो वरुणो रणोल्बणस्तमन्वियाय त्रिपुरान्तकात्मजम्॥९॥

दिगम्बराधिक्रमणोल्बणं क्षणान्मृगं महीयांसमरुद्धविक्रमम्।
अधिष्ठितः सङ्गरकेलिलालसो मरुन्महेशात्मजमन्वगाद् द्रुतम्॥१०॥

विरोधिनां शोणितपारणैषिणीं गदामनूनां नरवाहनो वहन्।
महाहवाम्भोधि विगाहनोद्धतं यियासु मन्वागमदीशनन्दनम्॥११॥

महाहिनिर्बद्धजटाकलापिनो ज्वलत्त्रिशूलप्रबलायुधा युधे।
रुद्रास्तुषाराद्रिसखं महावृषं ततोऽधिरुढास्तमयुः िुनाकिनः॥१२॥

अन्येऽपि संनह्य मदारणोत्सवश्रद्धालवः स्वर्गिगणास्तमन्वयुः।
स्ववाहनानि प्रबलान्यधिष्ठिताः प्रमोदविस्मेरमुखाम्बुजश्रियः॥१३॥

उद्दण्डहेमध्वजदण्डसंकुलाश्चञ्चद्विचित्रातपवारणोज्ज्वलाः।
चलद्धनस्यन्दनघोषभीषणाः करीन्द्रघण्टारवचण्डचीत्कृताः॥१४॥

स्फुरद्विचित्रायुधकान्तिमण्डलैरुद्द्योतिताशावलयाम्बरान्तराः।
दिवौकसां सोऽनुवहन्महाचमूः पिनाकपाणेस्तनयस्ततो ययौ॥१५॥

कोलाहलेनोच्चलतां दिवौकसां महाचमूनां गुरुभिर्ध्वजव्रजैः।
घनैर्निरुच्छ्वासमभूदनन्तरं दिङ्मण्डलं व्योमतलं महीतलम्॥१६॥

सुरारिलक्ष्मीपरिकम्पहेतवो दिक्चक्रवालप्रतिनादमेदुराः।
नभोन्तकुक्षिंभरयो घनाः स्वना निहन्यमानैः पटहैर्वितेनिरे॥१७॥

प्रमथ्यमानाम्बुधिगर्जतर्जनैः सुरारिनारीगणगर्भपातनैः।
नभश्चमूधूलिकुलैरिवाकुलं ररास गाढं पटहप्रतिस्वनैः॥१८॥

क्षुण्णं रथैर्वाजिभिराहतं खुरैः करीन्द्रकर्णैः परितः प्रसारितम्।
धूतं ध्वजैः काञ्चनशैलजं रजो वातैर्हतं व्याम समारुहत्क्रमात्॥१९॥

खातं खुरै रथ्यतुरङ्गपुंगवै रुपत्यकाहाटकमेदिनीरजः।
गतं दिगन्तान्मुखरैः समीरणैः सुविभ्रमं भूरि बभार भूयसा॥२०॥

अधस्तथोर्ध्वं पुरतोऽथ पृष्ठतोऽभितोऽपि चामीकररेणुरुच्चकैः।
चमूषु सर्पन्मरुदाहतोऽहरन्नवीनसूर्यस्य च कान्तिवैभवम्॥२१॥

बलोद्धृतं काञ्चनभूमिजं रजो बभौ दिगन्तेषु नभःस्थले स्थितम्।
अकालसन्ध्याघनरागपिङ्गलं घनं घनानामिव वृन्दमुद्यतम्॥२२॥

हेमावनीषु प्रतिबिम्बमात्मनो मुहुर्विलोक्याभिमुखं महागजाः।
रसातलोत्तीर्णगजभ्रमात्क्रुधा दन्तप्रकाण्डप्रहृतानि तेनिरे॥२३॥

सुजातसिन्दूरपरागपिञ्जरैः कलं चलद्भिः सुरसैन्यसिन्धुरैः।
शुद्धासु चामीकरशैलभूमिषु नादृश्यत स्वं प्रतिबिम्बमग्रतः॥२४॥

इति क्रमेणामरराजवाहिनी महाहवाम्भोधिविलासलालसा।
अवातरत्काञ्चनशैलतो द्रुतं कोलाहलाक्रान्तविधूतकन्दरा॥२५॥

महाचमूस्यन्दनचण्डचीत्कृतैर्विलोलघण्टेभपतेश्च बृंहितैः।
सुरेन्द्रशैलेन्द्रमहागुहाशयाः सिंहा महत्स्वप्नसुखं न तत्यजुः॥२६॥

गम्भीरभेरीध्वनितैर्भयंकरैर्महागुहान्तप्रतिनादमेदुरैः।
महारथानां गुरुनेमिनिस्वनैरनाकुलैस्तैर्मृगराजताजनि॥२७॥

समुत्थितेन त्रिदिवौकसां महाचमूरवेणाद्रितटान्तदारिणा।
प्रपेदिरे केसरिणोऽधिकं मदं स्ववीर्यलक्ष्मीमृगराजतावशात्॥२८॥

भिया सुरानीकविमर्दजन्मना विदुद्रुवुर्दूरतरं द्रुतं मृगाः।
गुहागृहान्ताद्बहिरेत्य हेलया तस्थुर्विशङ्कं नितरां मृगाधिपाः॥२९॥

विलोकिताः कौतुकिनाऽमरावतीजनेन जुष्टप्रमदेन दूरतः।
सुराचलप्रान्तभुवः प्रपेदिरे सुविस्तृतायाः प्रसरं सुसैनिकाः॥३०॥

पीतासितारक्तसितैः सुराचल प्रान्तस्थितैर्धातुरजोभिरम्बरम्।
अयत्नगन्धर्वपुरोदयभ्रमं बभार भूम्नोत्पतितैरितस्ततः॥३१॥

महास्वनः सैन्यविमर्दसम्भवः कर्णान्तकूलंकषतामुपेयिवान्।
पयोनिधेः क्षुब्धतरस्य वर्धनो बभूव भूम्ना भुवनोदरम्भरिः॥३२॥

महागजानां गुरुबृंहितैस्ततैः सुहेषितैर्घोरतरैश्च वाजिनाम्।
घनै रथानां गुरुचण्डचीत्कृतैस्तिरोहितोऽभूत्पटहस्य निःस्वनः॥३३॥

महासुराणामवरोधयोषितां कचाक्षिपक्ष्मस्तनमण्डलेषु च।
ध्वजेषु नागेषु रथेषु वाजिषु क्षणेन तस्थौ सुरसैन्यजं रजः॥३४॥

घनैर्विलोक्य स्थगितार्कमण्डलैश्चमूरजोभिर्निचितं नभःस्थलम्।
अयायि हंसैरभि मानसं घनभ्रमेण सानन्दमनर्ति केकिभिः॥३५॥

सान्द्रैः सुरानीकरजोभिरम्बरे नवाम्बुदानीकनिभैरभिश्रितै।
चकाशिरे स्वर्णमया महाध्वजाः परिस्फुरन्तस्तडितां गणा इव॥३६॥

विलोक्य धूलीपटलैर्भृशं भृतं द्यावापृथिव्योरलमन्तरं महत्।
किमूर्ध्वतोऽधः किमधस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनैरतर्क्यत॥३७॥

नोर्ध्वं न चाधो न पुरो न पृष्ठतो न पार्श्वतोऽभूत्खलु चक्षुषोर्गतिः।
सूच्यग्रभेद्यैः पृतनारजश्चयैराच्छादिता प्राणिगणस्य सर्वतः॥३८॥

दिगन्तदन्त्यावलिदानहारिभिर्विमानरन्ध्रप्रतिनादमेदुरैः।
अनेकवाद्यध्वनितैरनारतैर्जगर्ज गाढं गुरुभिर्नभस्तलम्॥३९॥

भुवं विगाह्य प्रययौ महाचमूः क्वचिन्न मान्ती महतीं दिवं खलु।
सुसंकुलायामपि तत्र निर्भरात्किं कांदिशीकत्वमवाप नाकुला॥४०॥

उद्दामदानद्विपवृन्दबृंहितैर्नितान्तमुत्तुङ्गतुरङ्गहेषितैः।
चलद्घनस्यन्दननेमिनिःस्वनैरभून्निरुच्छ्वासमिवाकुलं जगत्॥४१॥

महागजानां गुरुभिस्तु गर्जितैर्विलोलघण्टारणितै रणोल्वणैः।
वीरप्रणादैः प्रमदप्रमेदुरैर्वाचालतामादधिरेतरां दिशः॥४२॥

दन्तीन्द्रदानद्रववारिवीचिभिः सद्योऽपि नद्यो बहुधा पुपूरिरे।
धारा रजोभिस्तुरगैः क्षतैर्भृता याः पङ्कतामेत्य रथैः स्थलीकृताः॥४३॥

निम्नाः प्रदेशाः स्थलतामुपागमन्निम्नत्वमुच्चैरपि सर्वतश्च ते।
तुरङ्गमाणां व्रजतां खुरैः क्षता रथैर्गजेन्द्रैः परितः समीकृताः॥४४॥

नभोदिगन्तप्रतिघोषभीषणैर्महामहीभृत्तटदारणोल्वणैः।
पयोधिनिर्धूननकेलिभिर्जगद् बभूव भेरीध्वनितैः समाकुलम्॥४५॥

इतस्ततो वातविधूत चञ्चलैर्नोरन्ध्रिताशागमनैर्ध्वजांशुकैः।
लक्षैः क्वणत्काञ्चनकिङ्किणीकुलैरमज्जि धूलीजलधौ नभोगते॥४६॥

घण्टारवै रौद्रतरैर्निरन्तरं विसृत्वरैर्गर्जरवैः सुभैरवैः।
मत्तद्विपानां प्रथयाम्बभूविरे न वाहिनीनां पटहस्य निःस्वनाः॥४७॥

करालवाचालमुखाश्चमूस्वनैर्ध्वस्ताम्बरा वीक्ष्य दिशो रजस्वलाः।
तिरोबभूवे गहनैर्दिनेश्वरो रजोन्धकारैः परितः कुतोऽप्यसौ॥४८॥

आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गना व्योम रजोभिदूषिता।
भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं घनमत्सरादिव॥४९॥

गुरुसमीरसमीरितभूधरा इव गजा गगनं विजगाहिरे।
गुरुतरा इव वारिधरा रथा भुवमितीह विवर्त इवाभवत्॥५०॥

बलवदसुरलोकानल्पकल्पान्तकाले
निरवधय इवाम्भोराशयो घोरघोषाः।
गुरुतरपरिमज्जद्भूभृतो देवसेना
ववृधुरपि सुपूर्णा व्योमभूम्यन्तराले॥५१॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भवश्रीसीता-
रामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
देवसेनाप्रयाणं नाम चतुर्दशः सर्गः॥

 

No posts

Comments

No posts

No posts

No posts

No posts