कुमारसम्भवम् / अष्ठमः सर्गः's image
13 min read

कुमारसम्भवम् / अष्ठमः सर्गः

KalidasKalidas
0 Bookmarks 276 Reads0 Likes

कुमारसम्भवम् / अष्ठमः सर्गः /

पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति।
भावसाध्वसपरिग्रहादभूत्कामदोहद मनोहरं वपुः॥१॥

व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः॥२॥

कैतवेन शयिते कुतूहलात्पार्वति प्रतिमुखं निपातितम्।
चक्षुरुन्मिषति सस्मितं प्रिये विद्युदाहतमिव न्यमीलयत्॥३॥

नाभिदेशनिहितः सकम्पया शंकरस्य रुरुधे तया करः।
तद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविबन्धनम्॥४॥

एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति।
सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनी प्रिये॥५॥

अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम्।
वीक्षितेन परिवीक्ष्य पार्वती मूर्धकम्पमयमुत्तरं ददौ॥६॥

शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका।
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत्॥७॥

चुम्बनेष्वधरदानवर्जितं सन्नहस्तमदयोपगूहनम्।
क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम्॥८॥

यन्मुखग्रहणमक्षताधरं दानमव्रणपदं नखस्य यत्।
यद्रतं च सदयं प्रियस्य तत्पार्वती विषहते स्म नेतरत्॥९॥

रात्रिवृत्तमनुयोक्तुमुद्यतं सा प्रभातसमये सखीजनम्।
नाकरोदपकुतूहलं ह्रिया शंसितुं तु हृदयेन तत्वरे॥१०॥

दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः।
प्रेक्ष्य बिम्बमुपबिम्बमात्मनः कानि कानि न चकार लज्जया॥११॥

नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत्।
भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः॥१२॥

वासराणि कतिचित्कथंचन स्थाणुना रतमकारि चानया।
ज्ञातमन्मथरसा शनैःशनैः सा मुमोच रतिदुःखशीलताम्॥१३॥

सस्वजे प्रियमुरो निपीडनं प्रार्थितं मुखमनेन नाहरत्।
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा॥१४॥

भावसूचितमदृष्टविप्रियं चाटुमत्क्षणवियोगकातरम्।
कैश्चिदेव दिवसैस्तथा तयोः प्रेम गूढमितरेतराश्रयम्॥१५॥

तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैव ताम्।
सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैक वृत्तिभाक्॥१६॥

शिष्यतां निधुवनोपदेशिनः शंकरस्य रहसि प्रपन्नया।
शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम्॥१७॥

दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा।
शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः॥१८॥

चुम्बनादलकचूर्णदूषितं शंकरोऽपि नयनं ललाटजम्।
उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने॥१९॥

एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः।
शैलराजभवने सहोमया मासमात्रमवसद् वृषध्वजः॥२०॥

सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम्।
तत्र तत्र विजहार संपतन्नप्रमेयगतिना ककुद्मता॥२१॥

मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतः कृती।
हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमात्॥२२॥

पद्मनाभवलयाऽङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः।
मन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मषट्पदः॥२३॥

रावणध्वनितभीतया तया कण्ठसक्त दृढबाहुबन्धनः।
एकपिङ्गलगिरौ जगद्गुरुर्निर्विवेश विशदाः शशिप्रभा॥२४॥

तस्य जातु मलयस्थलीरतेर्धूतचन्दनलतः प्रियाक्लमम्।
आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः॥२५॥

हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा।
खे व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्त मेखला॥२६॥

तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन्।
नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः॥२७॥

इत्यभौममनुभूय शंकरः पार्थिवं च दयितासखः सुखम्।
लोहितायति कदाचिदातपे गन्धमादनवनं व्यगाहत॥२८॥

तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम्।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम्॥२९॥

पद्मकान्ति मरुणत्रिभागयोः संक्रमय्य तव नेत्रयोरिव।
संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः॥३०॥

सीकरव्यतिकरं मरीचिभि र्दूरयत्यवनते विवस्वति।
इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुर्व्रजन्त्यमी॥३१॥

दष्टतामरसकेसर त्यजोः क्रन्दतोर्वि परिवृत्तकण्ठयोः।
निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम्॥३२॥

स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम्।
आविभातचरणाय गृह्णते वारिरुहबद्धषट्पदम्॥३३॥

पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता।
दीर्घया प्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम्॥३४॥

उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः।
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव॥३५॥

एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः।
हीयमानमहरत्ययातपं पीवरोरु ! पिबतीव बर्हिणः॥३६॥

पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकतः।
खं हृतातपजलं विवस्वता भाति किंचिदिव शेषवत्सरः॥३७॥

आविशद्भि रुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः।
आश्रमाः प्रविशदग्निधेनवो विभ्रतिं श्रियमुदीरिताग्नयः॥३८॥

बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम्।
षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातु मन्तरम्॥३९॥

दूरलग्नपरिमेयरश्मिना वारुणी दिगरुणेन भानुना।
भाति केसरवतेव मण्डिता वन्धुजीवतिलकेन कन्यका॥४०॥

सामभिः सहचराः सहस्त्रशः स्यन्दनाश्वहृदयंगमस्वनैः।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः॥४१॥

सोऽयमानत शिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः।
अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ॥४२॥

खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशौ गतिः।
तत्प्रकाशयति याव दुद्गतं मीलनाय खलु तावतश्च्युतम्॥४३॥

संध्ययाप्यनुगतं रवे र्वपु र्वन्द्यमस्तशिखरे समर्पितम्।
येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि॥४४॥

रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि ! भान्त्यमूः।
द्रक्ष्यसि त्वमिति सांध्यवेलया वर्तिकाभिरिव साधुवर्तिताः॥४५॥

सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च।
पश्य धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम्॥४६॥

अद्रिराजतनये ! तपस्विनः पावनाम्बुविहिता ञ्जलिक्रियाः।
ब्रह्म गूढम भिसंध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी॥४७॥

तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति॥४८॥

निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा।
शैलराजतनया समीपगामाललाप विजया महेतुकम्॥४९॥

ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम्।
पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम्॥५०॥

मुञ्च कोपमनिमित्तकोपने ! संध्यया प्रणमितोऽस्मि नान्यया।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः॥५१॥

निर्मितेषु पितॄषु स्वयंभुवा या तनुः सुतनु ! पूर्व मुज्झिता।
सेयमस्तमुदयं च सेवते तेन मानिनि ! ममात्र गौरवम्॥५२॥

तामिमां तिमिर वृद्धिपीडितां भूमिलग्नमिव सम्प्रति स्थिताम्।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव॥५३॥

सांध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक्।
संपरायवसुधासशोणितं मण्डलाग्रमिव तिर्यदुत्थितम्॥५४॥

यामिनीदिवससंधिसंभवे तेजसि व्यवहिते सुमेरुणा।
एतदन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते॥५५॥

नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः।
लोक एष तिमिरोल्बवेष्टितो गर्भवास इव वर्तते निशि॥५६॥

शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत्।
सर्वमेव तमसा समीकृतं धिङ् महत्त्वमसतां हृतान्तरम्॥५७॥

नून मुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये।
पुण्डरीकमुखि ! पूर्वदिङ्मुखं कैतकैरिव रजोभिरावृतम्॥५८॥

मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका।
त्वं मया प्रियसखोसमागता श्रोष्यतेव वचनानि पृष्ठतः॥५९॥

रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम्।
एतदुद्गिरति चन्द्रमण्डलं दिग्रहस्यमिव रात्रिचोदितम्॥६०॥

पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा।
विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते॥६१॥

शक्यमोषधिपतेर्नवोदया कर्णपूररचनाकृते तव।
अप्रगल्भयवसूचि कोमलाश्छेत्तुमग्रनखसंपुटैः कराः॥६२॥

अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः।
कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥६३॥

पश्य पार्वति नवेन्दुरश्मिभि सामिभिन्नतिमिरं नभस्तलम्।
लक्ष्यते द्विरदभोगदूषितं संप्रसीदमिव मानसं सरः॥६४॥

रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः।
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया॥६५॥

उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः।
नूनमात्मसदृशी प्रकल्पिता वेधसा हि गुणदोषयोर्गतिः॥६६॥

चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः।
मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः॥६७॥

कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरिव पश्य सुन्दरि !
हारयष्टि रशनाभिबांशुभिः कर्तुमागतकुतूहलः शशी॥६८॥

उन्नतावनत भाववत्तया चन्द्रिका सतिमिरा गिरेरियम्।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः॥६९॥

एतदु च्छ्वसितपीतमैन्दवं वोढु मक्षयमिव प्रभारसम्।
मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमानिबन्धनात्॥७०॥

पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरुपसंशयम्।
मारुते चलति चण्डिके ! बलं व्यज्यते विपरिवृत्तमंशुकम्॥७१॥

शक्यमङ्गुलिभिरुत्थितैरधः शाखिनां पतितपुष्पपेशलैः।
पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवालकान्॥७२॥

एष चारुमुखि ! योगतारया युज्यते तरलबिम्बया शशी।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः॥७३॥

पाकभिन्न शरकाण्डगौरयोरुल्लसत्प्र कृतिजप्रसादयोः।
रोहतीव तव गण्डलेखयोश्चन्द्रबिन्बनिहिताक्षि ! चन्द्रिका॥७४॥

लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम्।
त्वामियं स्थितिमतीमु पागता गन्धमादनवनाधिदेवता॥७५॥

आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि मधु करिष्यति॥७६॥

मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम्।
इत्युदारमभिधाय शंकरस्तामपाययत पानमम्बिकाम्॥७७॥

पार्वती तदुपयोगसंभवां विक्रियामपि सतां मनोहराम्।
अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ॥७८॥

तत्क्षणं विपरिवर्तितह्रियोर्नेष्यतोः शयनमिद्धरागयोः।
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च॥७९॥

घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दुमदकारणस्मितम्।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ॥८०॥

तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम्।
ध्यानसंभृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः॥८१॥

तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम्।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः॥८२॥

क्लिष्टकेशमबलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम्।
तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये॥८३॥

केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्किषु।
तेन तत्प्रतिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम्॥८४॥

स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम्।
मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः॥८५॥

तौ क्षणं शिथिलितोपगूहनौ दंपती चलितमानसोर्मयः।
पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः॥८६॥

ऊरुमूलनखमार्ग राजिभिस्तत्क्षणं हृतविलोचनो हरः।
वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत्॥८७॥

स प्रजागरकषायलोचनं गाढदन्त परिताडिताधरम्।
आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम्॥८८॥

तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम्।
निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम्॥८९॥

स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिसेविषुः।
दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात्॥९०॥

समदिवसनिशीथं सङ्गिनस्तत्र शंभोः
शतमगमदृतूनां साग्रमेका निशेव।
न तु सुरतसुखेभ्य श्छिन्नतृष्णो बभूव
ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः॥९१॥

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया
संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ
कुमारसंभवे महाकाव्ये उमासुरतर्वणनं

नामाष्टमः सर्गः॥ ८॥

 

No posts

Comments

No posts

No posts

No posts

No posts