संस्कृत लावनी's image
3 min read

संस्कृत लावनी

Bhartendu HarishchandraBhartendu Harishchandra
0 Bookmarks 108 Reads0 Likes

 
कुंज कुंज सखि सत्वरं ।
चल चल दयित: प्रतीक्षते त्वां तनोति बहु आदरं ।
सर्वा अपि संगता:।
नो दृष्ट्वा त्वां तासि प्रियसखिहरिणा हं प्रेषिता ।
मानं तज वल्लभे ।
नास्ति श्रीहरिसदृशो दयितो वच्मि इदं ते शुभे ।
गतिर्भिन्ना ।
परिधेहि निचोलं लघु ।
जायते बिलम्बो बहु ।
सुंदरि त्वरां त्वं कुरु ।
श्रीहरि मानसे वृणु ।
चल चल शीघ्रं नोचेत्सव निष्यन्तिहि सुन्दरं ।
अन्यद्वन मन्दिरं चल चल दयित: ।।1।।

ॠणु वेणुनादमागतं ।
त्वदर्थमेव श्रीहरिरेष: समानयत्स्त्रीशतं ।
त्वय्येव हरिं सद्रतं ।
तवैतार्थीमह प्रमदाशतकं प्रियेण विनियोजितं ।
श्रृण्वन्यमृतां संरुतं ।
आकरायन्ति सर्वे समाप्यहरिणोमधुरं मतं ।
बिभिन्नगति:।
दिशति ते प्रियतमसंदेशं ।।
ग्रहीत्वा मदन: पिकवेशं ।
जनयति मनसि स्वावेशं ।।
समुत्साहयतरेतिलेशं ।
न कुरु विलम्बं क्षणमपि मत्वा दुर्ल्लभमौल्याकारं ।।
ॠणु वचनं मे हितभरं ।
चल चल दयित: ।।2।।

सूर्योप्यरतंगत:।
गोपिगोपयितुमभिसरणं तव अंधकारइहतत: ।।
दृश्यते पश्यनोमुखं ।
कस्यापिहि जीवस्य प्रणयिन्यभिसरणौत्सुखं ।।
ब्रज ब्रजेन्द्र कुलनन्दनं ।
करोतियत्स्मृनिरपि सखि सकलव्याधे: सुनिकन्दनं ।
गति: ।।
चन्द्रमुखि चन्द्रंरवे समुदितं ।।
करैस्त्वामालाम्बितुमुद्यतं ।
आलि अवलोक्य तारावृतं ।।
भाति बिष्टयं चन्द्रिकायुतं ।
चकोरायितश्चन्द्रस्त्यत्वा स्थलमपि रत्नाकरं ।।
मुखं ते दृष्टुं सखि सुन्दरं ।
चल चल दयित:।।3।।

परित्यज चंचलमंजीरं ।
अवगुण्ठय चन्द्राननसिंह सखि धेहि नील चीरं ।।
रमय रसिकेश्वरमाभीरं ।
युवतीशतसंग्रामसुरतरमचमेकवीरं ।।
भयं त्यज हृदि धारय धीरं ।
शोभयस्वमुखकान्तिविराजितरवितनया तीरं ।।
गति: ।।
मुञ्चमानं मानय वचनं ।।
विलम्बं मा कुरु कुरु गमनं ।।
प्रियांके प्रिये रचय शयनं ।।
सुतनुतनु सुखमयमालिजनं ।
दासौ दामोदर हरिचन्दौ पार्थयतस्तेवरं ।।
वरय राधे त्वं राधावरं ।
चल चल दयित: प्रतीक्षते त्वां तनोति बहु आदरं ।।4।।

(सन् 1874 को ‘हरिश्चन्द्र मैगज़ीन’ में प्रकाशित)
  

No posts

Comments

No posts

No posts

No posts

No posts