उपदेशसाहस्री / उपदेश ११'s image
3 min read

उपदेशसाहस्री / उपदेश ११

Aadi SankaracharyaAadi Sankaracharya
0 Bookmarks 226 Reads0 Likes

उपदेशसाहस्री / उपदेश ११
ईक्षितृत्वं स्वतःसिद्धं जन्तूनां च ततोऽन्यता।
अज्ञानादित्यतोऽन्यत्वं सदसीति निवर्त्यते॥

एतावद् ध्यमृतत्वं न किंचिदन्यत् सहायकम्।
ज्ञानस्येति ब्रुवच्छास्त्रं सलिञ्गं कर्म बाधते॥

सर्वेषां मनसो वृत्तमविशेषेण पश्यतः।
तस्य मे निर्विकारस्य विशेषः स्यात् कथंचन॥

मनोवृत्तं मनश्चैव स्वप्नवज् जाग्रतीक्षितुः।
संप्रसादे द्वयासत्त्वाच् चिन्मात्रः सर्वगोऽद्वयः॥

स्वप्नः सत्यो यथा ऽऽबोधाद् देहात्मत्वं तथैव च।
प्रत्यक्षादेः प्रमाणत्वं जाग्रत् स्यादा ऽऽत्मवेदनात् ॥

व्योमवत् सर्वभूतस्थो भूतदोषैर्विवर्जितः।
साक्षी चेताऽगुणः शुद्धो ब्रह्मैवास्मीति केवलः॥

नामरूपक्रियाभ्योऽन्यो नित्यमुक्तस्वरूपवान्।
अहमात्मा परं ब्रह्म चिन्मात्रोऽहं सदाद्वयः॥

अहं ब्रह्मास्मि कर्ता च भोक्ता चास्मीति ये विदुः।
ते नष्टा ज्ञानकर्मभ्यां नास्तिकाः स्युर्न संशयः॥

धर्माधर्मफलैर्योग इष्टोऽदृष्टो यथात्मनः।
शास्त्राद् ब्रह्मत्वमप्यस्य मोक्षो ज्ञानात् तथेष्यताम्॥

या माहाराजनाद्यास्ता वासनाः स्वप्नदर्शिभिः।
अनुभूयन्त एवेह ततोऽन्यः केवलो दृषिः॥

कोशादिव विनिष्कृष्टः कार्यकारणवर्जितः।
यथासिर्दृश्यते स्वप्ने तद्वद् बोद्धा स्वयंप्रभः॥

आपेषात् प्रतिबुद्धस्य ज्ञस्य स्वाभाविकं पदम्।
उक्तं नेत्यादिवाक्येन कल्पितस्यापनेतृणा॥

महाराजादयो लोका मयि यद्वत् प्रकल्पिताः।
स्वप्ने तद्वद् द्वयं विद्याद् रूपं वासनया सह॥

देहलिञ्गात्मना कार्या वासनारूपिणा क्रिया।
नेतिनेत्यात्मरूपत्वान् न मे कार्या क्रिया क्वचित्॥

न ततोऽमृतताशास्ति कर्मणोऽज्ञानहेतुतः।
मोक्षस्य ज्ञानहेतुत्वान् न तदन्यदपेक्षते॥

अमृतं चाभयं नार्तं नेतीत्यात्मा प्रियो मम।
विपरीतमतोऽन्यद् यत् त्यजेत् तत् सक्रियं ततः॥

No posts

Comments

No posts

No posts

No posts

No posts