उपदेशसाहस्री / उपदेश १०'s image
3 min read

उपदेशसाहस्री / उपदेश १०

Aadi SankaracharyaAadi Sankaracharya
0 Bookmarks 137 Reads0 Likes

उपदेशसाहस्री / उपदेश १० /
दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम्।
अलेपकं सर्वगतं यदद्वयं तदेव चाहं सततं विमुक्त ओम्॥

दृषिस्तु शुद्धोऽहमविक्रियात्मको न मेऽस्ति कश्चिद् विशयः स्वभावतः।
पुरस्तिरश्चोर्ध्वमधश्च सर्वतः सुपूर्णभूमा त्वज आत्मनि स्थितः॥

अजोऽमरश्चैव तथाजरोऽमृतः स्वयंप्रभः सर्वगतोऽहमद्वयः।
न कारणं कार्यमतीव निर्मलः सदैव तृप्तश्च ततो विमुक्त ओम्॥

सुषुप्तजारत्स्वपतश्च दर्शनं न मेऽस्ति किंचित् स्वमिवेह मोहनम्।
स्वतश्च तेषां परतोऽप्यसत्त्वतस्तुरीय एवास्मि सदा दृगद्वयः॥

शरीरबुद्धीन्द्रियदुःखसंततिर्न मे न चाहं मम निर्विकारतः।
असत्त्वहेतोश्च तथैव संततेरसत्त्वमस्याः स्वपतो हि दृश्यवत्॥

इदं तु सत्यं मम नास्ति विक्रिया विकारहेतुर्न हि मेऽद्वयत्वतः।
न पुण्यपापे न च मोक्षबन्धने न चास्ति वर्णश्रमताशईरतः॥

अनादितो निर्गुणतो न कर्म मे फलं च तस्मात् परमोऽहमद्वयः।
यथा नभः सर्वगतं न लिप्यते तथा ह्यहं देहगतोऽपि सूक्ष्मतः॥

सदा च भूतेषु समोऽहमीश्वरः क्षराक्षराभ्यां परमो ह्यथोत्तमः।
परात्मतत्त्वश्च तथाद्वयोऽपि सन् विपर्ययेणाभिवृतस्त्वविद्यया॥

अविद्यया भावनया च कर्मभिर्विविक्त आत्माव्यवधिः सुनिर्मलः।
दृगादिशक्तिप्रचितोऽहमद्वयः स्थितः स्वरूपे गगनं यथाचलम्॥

अहं परं ब्रह्म विनिश्चयात्मदृञ् न जायते भूय इति श्रुतेर्वचः।
न चैव बीजे त्वसति प्रजायते फलं न जन्मास्ति ततो ह्यमोहता।

ममेदमित्थं च तवाद ईदृशं तथाहमेवं न परोऽपि चान्यथा।
विमूढतैवस्य जनस्य कल्पना सदा समे ब्रह्मणि चाद्वये शिवे॥

यदद्वयं ज्ञानमतीव निर्मलं महात्मनां तत्र न शोकमोहता।
तयोरभावे न हि कर्म जन्म वा भवेदयं वेदविदां विनिश्चयः॥

सुषुप्तवज् जाग्रति यो न पश्यति द्वयं तु पश्यन्नपि चाद्वयतः।
तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन् नान्य इतीह निश्चयः॥

इतीदमुक्तं परमार्थदर्शनं मया हि वेदान्तविनिश्चितं परम्।
विमुच्यतेऽस्मिन् यदि निश्चितो भवेन् न लिप्यते व्योमवदेव कर्मभिः॥

 

No posts

Comments

No posts

No posts

No posts

No posts